याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 256, कुल 782 में से
संदर्भ में पढ़ें२०० याज्ञवल्क्यस्मृतिः द्वित्रिचतुष्पञ्चकं शतम् । 'संख्याया अतिशदन्तायाः कन्' (पा. ५।१।२२) इत्यनुवृत्तौ 'तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते' (पा. ५।१।४७) इति कन् । (वृद्धेर्वृद्धिश्चक्रवृद्धिः प्रतिमासं तु कालिका । इच्छाकृता कारिता स्यात्कायिका कार्यकर्मणा) इयं च वृद्धिर्मासि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दि- वसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथा च नारदेन (१।१०२, ४) - 'कायिका कालिका चैव कारिता च तथा परा । चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा ॥' इत्युक्त्वोक्तम् - 'कायाविरोधिनी शश्वत्पणपादा- दिकायिका । प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥ वृद्धिः सा कारिता याऽधमर्णेन स्वयं कृता । वृद्धेरपि पुनर्द्धिश्चक्रवृद्धिरुदाहृता ॥' (१। १०३-४) इति ॥ ३७ ॥ भाषा-बन्धक रखे हुए धन पर उसका अस्सीवाँ भाग प्रत्येक मास में ब्याज होता है। अन्यथा (बन्धक न होने पर) वर्ण के अनुसार (ब्राह्मण आदि से क्रमशः) दो, तीन, चार और पाँच प्रतिशत ब्याज लेना चाहिए ॥ ३७ ॥ ग्रहीतृविशेषेण वृद्धेः प्रकारान्तरमाह- कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् । कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः । ये वृद्ध्या धनं गृहीत्वाधिक- लाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च समुद्रगास्ते विंशकं शतम् । मासि मासीत्येव । एतदुक्तं भवति-कान्तार- गेभ्यो दशकं शतं, सामुद्रेभ्यश्च विंशकं शतं, उत्तमर्ण आदद्यात् ; मूलविनाश- स्यापि शङ्कितत्वादिति ॥ इदानीं कारितां वृद्धिमाह - दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ ३८ ॥ सर्वे वा ब्राह्मणादयोऽधमर्णाः अबन्धके सबन्धके वा स्वकृतां स्वाभ्यु- पगतां वृद्धिं सर्वासु जातिषु दद्युः । क्वचिदकृतापि वृद्धिर्भवति; यथाह नारदः (१।१०८)-'न वृद्धिः प्रीतिदत्तानां स्यादानाकारिता क्वचित् । अनाकारित- मप्यूर्ध्वं वत्सराधद्विर्द्धते ॥' इति । यस्तु याचितकं गृहीत्वा; देशान्तरं गतस्तं प्रति कात्यायनेनोक्तम् - 'यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् । ऊर्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यश्च याचितकमादाय याचितोऽ- प्यदत्त्वा देशान्तरं व्रजति तं प्रति तेनैवोक्तम्-कृतोद्धारमदत्त्वा यो याचितस्तु १' पुस्तकेऽधिकोऽयं पाठः। २ नैवाधिकं । ३ याति ।