याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 257, कुल 782 में से
संदर्भ में पढ़ेंदिशं व्रजेत् । ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददादि तं याचितकालादार- भ्योऽकारितां वृद्धिं दापयेद्राजा । यथाह—'स्वदेशेऽपि स्थितो यस्तु न दद्याद्या- चितः क्वचित् । तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ॥' इति । अना- कारितवृद्धेरपवादो नारदेनोक्तः–'पण्यमूल्यं भृतिर्न्यासो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥' इति । अविवक्षिता अनाकारिता इति ॥ ३८ ॥ भाषा—(अधिक लाभ के लिये ऋण लेकर) गहन वन में जाने वाले से दश प्रतिशत और समुद्र की यात्रा करने वाले से बीस प्रतिशत वृद्धि (ब्याज) लेनी चाहिए । अथवा सभी जातियों के लिये जो जितनी वृद्धि देना स्वीकार करे उतनी देवे ॥ ३८ ॥ अधुना द्रव्यविशेषेण वृद्धिविशेषमाह— सन्ततिस्तु पशुस्त्रीणां— पशुस्त्रीणां सन्ततिरेव वृद्धिः । पशूनां स्त्रीणां दोहणासमर्थस्य तत्पुष्टिसन्त- तिकामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचर्यार्थिनः ॥ अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेणापि चिरकालावस्थितस्य कस्य द्रव्यस्य कियती परा वृद्धिरित्यपेक्षित आह— —रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ ३९ ॥ रसस्य तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्धया वर्धमानस्य अष्टगुणा वृद्धिः परा, नातः परं वर्धते । तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा च वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्य- मुक्तम् ( २।४४।७ ) 'द्विगुणं हिरण्यं त्रिगुणं धान्यं । धान्येनैव रसा व्याख्याताः पुष्पमूलफलानि च । तुलाधृतं मष्टगुणम्' इति । मनुना तु धान्यस्य पुष्पमूल- फलादीनां च पञ्चगुणत्वमुक्तम्—'धान्ये शदे लवे बाह्ये नातिक्रामति पञ्चताम्' इति । शदः क्षेत्रे फलं पुष्पमूलफलादि, लवो मेषोर्णाचमरीकेशादिः, बाह्यो बलीवर्दतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच्च सकृ- त्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव
१. याचन । २. रभ्य वृद्धि । ३. विशेषे । ४. तुलधृतं त्रितय । तृतीयमष्ट । ५. वृत्तफलं ।