याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 258, कुल 782 में से
संदर्भ में पढ़ें२८२ याज्ञवल्क्यस्मृतिः
वा, पुरुषे अनेकशः रेकसेकाभ्यां प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ववद्वर्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वा वृद्ध्याहरणे- ऽधमर्णदेयस्य द्वैगुण्यासंभवात्पूर्वाहितवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्धत एव । यथाह मनुः (८।१५१)—'कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदा- हिता ।' इति । सकृदाहृतेत्यपि पाठोऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं, तस्य वृद्धिः कुसीदवृद्धिः, सा द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्र- युक्ता । पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमभ्येति । सकृदाहृतेति पाठे तु शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाऽधमर्णादाहृता द्वैगुण्य- मभ्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम् ( १२।३१ )—'चिरस्थाने द्वैगुण्यं प्रयोगस्य' इति । 'प्रयोगस्य' इत्येकवचननिर्देशात्प्रयोगान्तरकरणे द्वैगुण्याति- क्रमोऽभिप्रतः । 'चिरस्थान' इति निर्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥ ३९ ॥
भाषा—पशु और स्त्री के लिये उनकी सन्तान ही वृद्धि (ब्याज) होती है । रस (तेल, घृत आदि) लेने पर उसकी वृद्धि स्वीकृत वृद्धि से अधिक से अधिक अठगुना हो सकती है । वस्त्र, धान्य और सोने की वृद्धि अधिक से अधिक क्रमशः चौगुनी, तिगुनी या दुगुनी होती है ॥ ३९ ॥
ऋणप्रयोगधर्मा उक्ताः; सांप्रतं प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते—
प्रपन्नं साधयन्नर्थं न वाच्यो नृपतेर्भवेत् । साध्यमानो नृपं गँच्छन्दण्ड्यो दाप्यश्च तद्धनम् ॥ ४० ॥
प्रपन्नमभ्युपगतमधमर्णेन धनं साक्ष्यादिभिर्भावितं वा साधयन् प्रत्याह- रन् धर्मादिभिरुपायैरुत्तमर्णो नृपतेर्वाच्यो निवारणीयो न भवति ॥ धर्मा- दयश्चोपाया मनुना दर्शिताः (मनुः ८।४९) —'धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥' इति । धर्मेण प्रीतियुक्तेन सत्यवच- नेन, व्यवहारेण साक्षिलेख्याद्युपायेन, छलेन उत्सवादिव्याजेन भूषणादिग्रह- णेन, आचरितेन अभोजनेन, पञ्चमेनोपायेन बलेन निगडबन्धनादिना, उप- चयार्थं प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्यादिति । 'प्रपन्नं साधयन्नर्थं न वाच्य' इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतदेव स्पष्टी- कृतं कात्यायनेन—'पीडयेद्यो धनी कश्चिदृणिकं न्यायवादिनम् । तस्मादर्थात्स हीयेत तत्समं चौप्नुयाद्दमम् ॥' इति । यस्तु धर्मादिभिरुपायैः प्रपन्नमर्थं साधय-
१. गान्तरीकरणे । २. गच्छेत् । ३. प्रपन्नं साधयन्नर्थं । ४. लेखाद्युपन्यासेन । ५. प्राप्नुयात् ।