याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 247, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः १६१ स्वत्वहेतुः प्रतिग्रहक्रयादिः आगमः । स भोगादप्यधिको बलीयान्; स्वत्व- बोधने भोगस्यागमसापेक्षत्वात् । यथाह नारदः ( १।८५ )—'आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥' इति । न च भोगमात्रात्स्वत्वागमः; परकीयस्याप्यपहारादिनोपभोगसंभवात् । अतएद— 'भोगं केवलतो यस्तु कीर्तयेन्नागमं क्वचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥' (नारदः १८।६) इति स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तं भवति । तथा च स्मर्यते—'सागमो दीर्घकालश्चाविच्छेदोऽपरवोजित्तः । प्रत्यर्थिसंनिधानश्च परिभोगोऽपि पञ्चधा ॥' इति । क्वचिच्चागमनिरपेक्षस्यापि भोगस्य प्रामाण्य- मित्याह—विना पूर्वक्रमागतादिति । पूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः, तेनागतो यो भोगस्तस्माद्विना । आगमोऽभ्यधिक इति संबन्धः । स पुनरागमादभ्यधिकः आगमनिरपेक्षः । प्रमाणमित्यर्थः । तत्राप्यागमोऽज्ञातनिर- पेक्षो न सत्तानिरपेक्षः । सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् । 'विना पूर्व- क्रमागतात्' इत्येतच्च स्मार्तकालप्रदर्शनार्थम् । 'आगमोऽभ्यधिको भोगात्' इति च स्मार्तकालविषयम् । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगमाभाव- निश्चयसंभवादागमज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । अस्मार्ते तु काले योग्या- नुपलब्ध्यभावेनागमाभावनिश्चयासंभवादागमज्ञाननिरपेक्ष एव संततो भोगः प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन—'स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता ॥' इति । स्मार्तश्च कालो वर्षशतपर्यन्तः; 'शतायुर्वे पुरुषः' इति श्रुतेः । अनुगमाभावादिति योग्यानु- पलब्ध्यभावेनागमाभावनिश्चयासंभवादित्यर्थः । अतश्च वर्षशताधिको भोगः संततोऽप्रतिरवः प्रत्यक्षश्चागमाभावे वाऽनिश्चितेऽव्यभिचारादाच्छिन्नागमः स्वत्वं गमयति । अस्मार्तेऽपि कालेऽनागमस्मृतिपरंपरायां सत्यां न भोगः प्रमाणम् । अत एव 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः॥' इत्युक्तम् । न च 'अनागमं तु यो भुङ्क्ते' इत्येकवचननिर्देशात् 'बहून्यब्दशतान्यपि' इति 'अपि'शब्दप्रयोगात्प्रथमस्यैव^२ पुरुषस्य निरागमे चिर- कालोपभोगेऽपि दण्डविधानमिति मन्तव्यम् । द्वितीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतदिष्यते—'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा' ( नारदः २।८७ ) इति नारदस्मरणात् । तस्मात्सर्वत्र निरागमोपभोगे 'अनागमं तु यो भुङ्क्ते' इत्येतद् द्रष्टव्यम् । यदपि 'अन्यायेनापि यद्भुक्तं पित्रा पूर्व- तरैस्त्रिभिः । न तच्छक्यमपहतुं क्रमात्त्रिपुरुषागतम् ॥' इति, तदपि पित्रा सह १. अपरिवर्जित । २. प्रथमस्य पुरुषस्य ।