भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 251, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 251

व्यवहारोध्यायः १६५ एवं पूगनिणीतेऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिणीते तु श्रेण्यादिगमनं भवति । श्रेणिनिर्णीते पूगादिगमनम् । पूगनिर्णीते नृपाधिकृतगमनं भवतीति । नारदेन पुनर्नृपाधिकृतैर्निर्णीतेऽपि व्यव- हारे नृपगमनं भवतीत्युक्तम्—'कुलानि श्रेणयश्चैव गणाश्चाधिकृता १नृपाः । प्रतिष्ठा व्यवहाराणां गुर्वेषामुत्तरोत्तरम्' इति । तत्र च नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः सपणव्यवहारे निर्णीयमाने यद्यसौ कुदृष्टवादी पराजितस्तदासौ दण्ड्यः । अथासौ जयति तदाऽधिकृताः सभ्या दण्ड्याः ॥ ३० ॥ भाषा—मनुष्यों का व्यवहार देखने के कार्य में राजा द्वारा नियुक्त व्यक्ति, पूगा ( समूह ), एक कार्य करने वालों की बिरादरी और जाति तथा संबन्धियों का समूह ( कुल ) को क्रमशः श्रेष्ठ समझना चाहिए ॥ ३० ॥ दुर्बलैर्व्यवहारदर्शिभिर्दृष्टो व्यवहारः परावर्तते, प्रबलदृष्टस्तु न निवर्तत इत्युक्तम् ; इदानीं प्रबलदृष्टोऽपि व्यवहारः कश्चिन्निवर्तत इत्याह— बलोपधिविनिवृत्तान्व्यवहारान्निवर्तयेत् । स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस्तथा ॥ ३१ ॥ बलेन बलात्कारेण उपाधिना भयादिना विनिर्वृत्तान्निष्पन्नान्व्यवहारान्वि- वर्तयेत् । तथा स्त्रीभिः, नक्तं रात्रावस्त्रीभिरपि, अन्तरागारे गृहाभ्यन्तरे, बहिर्ग्रामा- दिभ्यः, शत्रुभिश्च कृतान् व्यवहारान् 'निवर्तयेत्' इति संबन्धः ॥ ३१ ॥ भाषा—बलपूर्वक एवं भय आदि द्वारा निष्पन्न व्यवहारों एवं स्त्रियों के साथ, रात्रि को, घर के भीतर, ग्राम आदि के बाहर और शत्रुओं द्वारा किये गये व्यवहारों पर पुनः विचार करे ॥ ३१ ॥ असिद्धव्यवहारिण आह— मत्तोन्मत्तार्त्तव्यसनिबालभीतादियोजितः । असंबद्धकृतश्चैव व्यवहारो न सिद्ध्यति ॥ ३२ ॥ अपि च, मत्तो मदनीयद्रव्येन, उन्मत्त उन्मादेन पञ्चविधेन वातपित्तश्लेष्म- संनिपातग्रहसंभवेनोपसृष्टः, आर्तौ व्याध्यादिना, व्यसनमिष्टवियोगाऽनिष्टप्राप्ति- जनितं दुःखं, तद्वान् व्यसनी; बालो व्यवहारायोग्यः, भीतोऽरातिभ्यः, 'आदि' ग्रहणात्पुरराष्ट्रादिविरुद्धः ।—'पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विसर्जितः । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति मनुस्मरणात् । एतैर्यांजितः कृतो १. नृपैः। २. सोत्तरेति उत्तरश्चासौ सभ्यश्चेति तत्सहितेन-स्वोत्तर । ३. बलोपधि । तत्रोपधिः कैतवं ४. उपधिना भयेन । ५. असंबन्द्धकृतः । ६. वियोगोऽनिष्टप्राप्तिस्तज्जनितं । १३ या०