याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 250, कुल 782 में से
संदर्भ में पढ़ें१६४ याज्ञवल्क्यस्मृतिः कृतो येन स दण्ड्यस्तमनुद्धरन् । न तत्सुतस्तत्सुतो वा भोग्यहानिस्तयोरपि ॥' इति ॥ २८ ॥ भाषा—जिस व्यक्ति ने आगम (लेख) करवाया है वह अभियोग चलाये जाने पर उसे प्रस्तुत करे । उसके पुत्र या पौत्रों को वह आगम प्रस्तुत करने का अधिकार नहीं रहता, उनके संबन्ध में भोग ही प्रमाण होता है ॥२८॥ अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं 'विना पूर्वक्रमागा- तात्' (व्य० २७) इत्यत्र, तस्यापवादमाह— योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागम्रेन विना कृता ॥ २९ ॥ यदा पुनराहर्त्रादिरभियुक्तोऽकृतव्यवहारनिर्णय एव परेतः स्यात् परलोकं गतो भवेत्तदा तस्य रिक्थी पुत्रादिस्तमागममुद्धरेत् । यस्मात्तत्र तस्मिन्व्ववहारे भुक्तिरागमसहिता साक्ष्यादिभिः साधितापि न प्रमाणम् ; पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेनाप्युक्तम् ( १।९३) —'तथा१रूढविवादस्य प्रेतस्य व्यव- हारिणः । पुत्रेण सोऽर्थः संशोध्यो न तं भोगो निवर्तयेत् ॥' इति ॥ २९ ॥ भाषा—यदि अभियुक्त (अभियोग चलते समय ही) मर जावे तब उसके उत्तराधिकारी (पुत्र इत्यादि) उस आगम को प्रस्तुत करें । उस स्थिति में विना आगम के भोग प्रमाण नहीं माना जाता ॥ २९ ॥ अनिर्णीतव्यवहारे व्यवहारि प्रेते व्यवहारो न निवर्तत इति स्थितम् । निर्णीतेऽपि व्यवहारे, स्थिते च व्यवहारिणि व्यवहारः क्वचित्प्रवर्तते क्वचिन्न प्रवर्तत इति व्यवस्थासिद्धये व्यवहारदर्शिनां बलाबलमाह— नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ ३० ॥ नृपेण राज्ञा अधिकृताः व्यवहारदर्शने नियुक्ताः—'राज्ञा सभासदः कार्याः' (व्य० २) इत्यादिनोक्ताः पूगाः समूहाः, भिन्नजातीनां भिन्नवृत्तीनां एकस्था- ननिवासिनां,—यथा ग्रामनगराद्यः, श्रेणयो नानाजातीनामेकजातीनामप्येकक- र्मोपजीविनां संघाताः,—यथा हेडाबुकादीनां ताम्बूलिककुविन्दचर्मकारादीनां च, कुलानि जातिसंबन्धिबन्धूनां समूहाः, एतेषां नृपाधिकृतादीनां चतुर्णां पूर्वं पूर्वं यद्यत्पूर्वं पठितं तत्तद्गुरु बलवज्ज्ञेयं वेदितव्यम् । नृणां व्यवहर्तॄणां, व्यवहारविधौ व्यवहारदर्शनकार्ये । एतदुक्तं भवति—नृपाधिकृतैर्निर्णीते व्यवहारे पराजितस्य यद्यप्यसंतोषः कुदृष्टिवुद्ध्या भवति, तथापि न पूगादिषु पुनर्व्यवहारो भवति । १. नवारूढः । २. निवारयेत् ।