भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 249, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 249

व्यवहारोऽध्यायः १६३ स्वीकारविकल आगमो दुर्बलो भवति तत्सहितो१दागमात् । एतच्च द्वयोः पूर्वापर- कालापरिज्ञाने । पूर्वापरकालपरिज्ञाने तु विगुणोऽपि पूर्वकालागम एव बलीया- निति । अथवा—'लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधम्' इत्युक्तं एतेषां समवाये कुत्र यस्य वा प्राबल्यमित्यत्रेदमुपतिष्ठते—'आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमाद्गतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकापि यन्न नो ॥' इति । अय- मर्थः—आद्ये पुरुषे साक्षिभिर्भावित आगमो भोगादप्यधिको बलवान् । पूर्वक्रमा- गताद्भोगाद्विना । स पुनः पूर्वक्रमागतो भोगश्चतुर्थे पुरुषे लिखितेन भावितादा- गमाद्बलवान् । मध्यमे तु भोगरहितादागमात्स्तोकभोगसहितोऽप्यागमो बलवा- निति । एतदेव नारदेन स्पष्टीकृतम्—'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या चिरन्तनी ॥' इति ॥ २७ ॥ भाषा—तीन पीढ़ी पहले से चले आते हुए भोग (कब्जे) की अपेक्षा आगम (लेख) अधिक प्रामाणिक होता है। (आगम-सापेक्ष भोग ही प्रमाण होता है। किन्तु जहाँ थोड़ा भी भोग नहीं होता वहाँ आगम में वो दम नहीं रह जाता है) ॥ २७ ॥ 'पश्यतोऽब्रुवत' (व्य० २४) इत्यत्र विंशतिवर्षोपभोगादूर्ध्वं भूमेर्धनस्या- पि दशवर्षोपभोगादूर्ध्वं फलानुसरणं न भवतीत्युक्तम्, तत्र फलानुसरणवद्दण्डा- नुसरणमपि न भविष्यतीत्याशङ्क्य पुरुषव्यवस्थया च दण्डव्यवस्थां दर्शयि- तुमाह— आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥ २८ ॥ येन पुरुषेण भूम्यादेरागमः स्वीकारः कृतः स पुरुषः 'कुतस्ते क्षेत्रादिकम्' इत्यभियुक्तस्तमागमं प्रतिग्रहा२दिकं लिखितादिभिरुद्धरेत् भावयेत् । अनेन चाद्य- स्य पुरुषस्यागममनुद्धरतो दण्ड इत्युक्तं भवति । तत्सुतो द्वितीयोऽभियुक्तो नागममुद्धरेत्, किन्तु अविच्छिन्नाऽप्रतिरव-समक्षं भोगम् । अनेन चागममनु- द्धरतो द्वितीयस्य न दण्डोऽपि तु विशिष्टं भोगमनुद्धरतो इति प्रतिपादितम् । तत्सुतस्तृतीयो नागमं नापि विशिष्टं भोगमुद्धरेत्, अपि तु क्रमागतं भोगमा- त्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशि- ष्टभोगानुद्धरणे चेत्यभिहितम् । तत्र तयोर्द्वितीयतृतीययोर्भुक्तिरेव गरीयसी । तत्रापि द्वितीये गुरुस्तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्वप्यागमानुद्धरणेऽर्थ- हानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थः । उक्तं च हारीतेन—'आगमस्तु १. सहितादागमाभावात् ; दनुमन्त्रयेत् । २. प्रतिग्रहादेरिति ।