याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 261, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २०५ अविभक्तैर्बहुभिः कुटुम्बार्थमेकैकेन वा यदृणं कृतं तदृणं कुटुम्बी दद्यात् । तस्मिन्प्रेते प्रोषिते वा तद्रिक्थिनः सर्वे दद्युः ॥ ४५ ॥ भाषा—संयुक्त परिवार में (एक साथ रहने वाले) अनेक व्यक्तियों या एक व्यक्ति द्वारा जो ऋण कुटुम्ब के पालन के लिये लिया गया हो, उसे उसकी मृत्यु के उपरान्त उसके सभी उत्तराधिकारी (सम्पत्ति के भागीदार) लौटावें ॥ ४५ ॥ येन देयमित्यत्र प्रत्युदाहरणमाह— न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥ ४६ ॥ पत्या कृतमृणं योषिद्भार्या नैव दद्यात् । पुत्रेण कृतं योषिन्माता न दद्यात् । तथा पुत्रेण कृतं पिता न दद्यात् । तथा भार्याकृतं पतिर्न दद्यात् । 'कुटुम्बार्थाहते' इति सर्वशेषः । अतश्च कुटुम्बार्थे येन केनापि कृतं तत् कुटुम्बिना देयम् । तद- भावे तद्दायहरैर्देयमित्युक्तमेव ॥ ४६ ॥ भाषा—जो ऋण कुटुम्ब के भरणपोषण के लिये नहीं लिया गया हो (किसी अन्य प्रयोजन से लिया गया हो) ऐसे पति द्वारा लिये गये ऋण को स्त्री न लौटावे, पुत्र द्वारा लिये गये ऋण को माता न भरे, पिता न भरे, और पत्नी द्वारा लिये गये ऋण को पति लौटाने का अधिकारी नहीं होता ॥४६॥ 'पुत्रपौत्रैर्ऋणं देयम्' (व्य० ५०) इति वक्ष्यति तस्य पुरस्तादपवादमाह— सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् । वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥ ४७ ॥ सुरापानेन यत्कृतमृणं कामकृतं स्त्रीव्यसननिमित्तं द्यूते पराजयनिमित्तं दण्डशुल्कयोरवशिष्टं वृथादानं धूर्तबन्दिमल्लादिभ्यो यत्प्रतिज्ञातम्—'धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे । चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥' इति स्मरणात् । एतदृणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र 'दण्ड- शुल्कावशिष्टक' मित्यवशिष्टग्रहणात्सर्वं दातव्यमिति न मन्तव्यम् ।—'दण्डं वा दण्डशेषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यच्च न व्यावहारिक- म् ॥' इत्यौशनसस्मरणात् । गौतमेनाप्युक्तम्—'मद्यशुल्कद्यूतदण्डा न पुत्रा- नधर्भवेयुः' इति । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयमृणमुक्तम् ॥ ४७ ॥ भाषा—मदिरापान एवं जुआ खेलने के निमित्त लिये गये ऋण, दण्ड और शुल्क की निधि के अवशिष्ट भाग, वृथादान के (धूर्त बन्दी, मल्ल आदि १. सर्वविशेषणं । २. निर्वृत्तं । ३. पुत्रानध्यावहेयुः ।