याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 262, कुल 782 में से
संदर्भ में पढ़ें२६६ याज्ञवल्क्यस्मृतिः के लिये प्रतिज्ञात ) धन—इन पैतृक ( पिता द्वारा लिये गये ) ऋणों को चुकाने का अधिकारी पुत्र नहीं होता ॥ ४७ ॥ 'न पतिः स्त्रीकृतं तथा' ( व्य० ४६ ) इत्यस्यापवादमाह— गोपशौण्डिकशैलूषरजकव्याधयोषिताम् । ऋणं दद्यात्पतिस्तेषां यस्माद्वृत्तिस्तदाश्रया ॥ ४८ ॥ गोपो गोपालः, शौण्डिकः सुराकारः, शैलूषो नटः, रजको वस्त्राणां रञ्जकः, व्याधो मृगयुः, एतेषां योषिद्भिर्ऋणं कृतं तत्पतिभिर्देयम् । यस्मात्तेषां वृत्ति- जीवनं तदाश्रया योषिदधीना। 'यस्माद्वृत्तिस्तदाश्रया' इति हेतुव्यपदेशादन्येऽपि ये योषिदधीनजीवनास्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते ॥ ४८ ॥ भाषा—गोप ( अहीर, ग्वाले ), कलारी ( सुराकार ), नट, रंगरेज और बहेलिया की स्त्रियों द्वारा लिये गये ऋण उनके पति देवें क्योंकि उनकी जीवनवृत्ति स्त्रियों के ही अधीन होती है ॥ ४८ ॥ 'पतिकृतं भार्या न दद्यात्' ( व्य० ४६ ) इत्यस्यापवादमाह— प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् । स्वयंकृतं वा यदृणं नान्यत्स्त्री दातुमर्हति ॥ ४९ ॥ मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नं तत्पतिकृत- मृणं देयम् । यच्च पत्या सह भार्यया ऋणं कृतं तदपि भर्त्रभावे भार्यया अपुत्रया देयम् । यच्च ^२स्वयंकृतं ऋणं तदपि देयम् । ननु 'प्रतिपन्नादि त्रयं स्त्रिया देयम्' इति वक्तव्यम् ; संदेहाभावात् । उच्यते—'भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥' इति वचना- न्निर्धनत्वेन प्रतिपन्नादिष्वदान^३शङ्कायामिदमुच्यते—'प्रतिपन्नं स्त्रिया देयं' मित्यादि । न चानेन वचनेन स्त्र्यादीनां निर्धनत्वमभिधीयते; पारतन्त्र्यमात्रप्रतिपादन- परत्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । 'नान्यत् स्त्री दातुमर्हति' इत्ये- तत्तर्हि, ^१ न वक्तव्यम् ; विधानेनैवान्यत्र प्रतिषेधसिद्धेः । उच्यते—'प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम्' इत्येतयोरपवादार्थमुच्यते । अन्यत्सुरा- कामादिवचनोपात्तं प्रतिपन्नमपि पत्या सह कृतमपि न देयमिति ॥ ४९ ॥ भाषा—( मरणासन्न या विदेश जाने वाले ) पति द्वारा लिये गये या पति के साथ लिये गये ऋण को अथवा स्वयं लिये गये ऋण को ही स्त्री लौटा सकती है अन्य ऋणों को नहीं ॥ ४९ ॥ १. स्तासां । २. स्वयमेव ।. ३. शंकयेदमुच्यते ।