याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 263, कुल 782 में से
संदर्भ में पढ़ेंव्यवहारोऽध्यायः २०७ पुनरपि यहृणं दातव्यं, येन च दातव्यं, यत्र च काले दातव्यं, तत्रितयमाह — पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा । पुत्रपौत्रैर्ऋणं देयं निह्नवे साक्षिभावितम् ॥ ५० ॥ पिता यदि दातव्यमृणमदत्त्वा प्रेतः, दूरदेशं गतः, अचिकित्सनीयव्याध्याद्य- भिभूतो वा तदा तत्कृतमृणमात्म्यापनेऽवश्यं देयम्, पुत्रेण पौत्रेण वा पितृधना- भावेऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमोऽप्ययमेव — पित्राभावे पुत्रः, पुत्राभावे पौत्र इति । पुत्रेण पौत्रेण वा निह्नवे कृते अर्थिना साक्षादिभिर्भावितमृणं देयं पुत्रपौत्रैरित्यन्वयः । अत्र 'पितरि प्रोषिते' इत्येतावदुक्तम्, कालविशेषस्तु नारदे- नोक्तो द्रष्टव्यः — 'नार्वार्कसंवत्सराद्विंशात्पितरि प्रोषिते सुतः । ऋणं दद्यात्पितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा ॥' इति । प्रेतेऽप्यप्राप्तव्यवहारकालो न दद्यात् , प्राप्त- व्यवहारकालस्तु दद्यात् । स च कालस्तेनैव दर्शितः — गर्भस्थः सदृशो ज्ञेय आष्ट- माद्वत्सराच्छिशुः । बाल आ षोडशाद्वर्षात्पौगण्डश्चेति शब्द्यते ॥ परतो व्यव- हारज्ञः स्वतन्त्रः पितरावृते ॥' इति । यद्यपि पितृमरणादूर्ध्वं बालोऽपि स्वतन्त्रो जातस्तथापि नर्णभाग्भवति । यथाह — 'अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि नर्ण- भाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्येष्ठ्यं गुणवयःकृतम् ॥' इति । तथा आले- ह्याह्नाननिषेधश्च दृश्यते—'अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषम- स्थाश्च नासेध्या न चैतानाह्वयेन्नृपः ॥' इति । तस्मात् 'अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । ऋणात्पिता मोचनीयो यथा नो नरकं व्रजेत् ॥' इति । पुत्रेण व्यवहारज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्याप्य- धिकारः — 'ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्' इति गौतमस्मरणात् । 'पुत्रपौत्रै'रिति बहुवचननिर्देशाद्वहवः पुत्रा यदि विभक्ताः स्वांशानुरूपेण ऋणं दद्युः । अविभक्ताश्चेत्सम्भूयसमुत्थानेन गुणप्रधानभावेन वर्तमानानां प्रधानभूत एव वा दद्यादिति गम्यते । यथाह नारदः (१।१४ )—'अत ऊर्ध्वं पितुः पुत्रा ऋणं दद्युर्यथांशतः । अविभक्ता विभक्ता वा यँस्तावुद्वहते धुरम् ॥' इति । अत्र च यद्यपि 'पुत्रपौत्रैर्ऋणं देय'मित्यविशेषेणोक्तं, तथापि पुत्रेण यथा पिता सवृद्धिकं ददाति तथैव देयम् । पौत्रेण तु समं मूलमेव दातव्यं, न वृद्धिरिति विशेषोऽवगं- न्तव्यः । ऋणमात्मीयवत्पित्र्यं देयं पुत्रैर्विभावितम् । पैतामहं समं देयमदेयं तत्सुतस्य तु ॥' इति बृहस्पतिवचनात् । अत्र 'विभावित'मित्यविशेषोपादानात्सा- क्षिविभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समं यावद्गृहीतं तावदेव, १. कृतमृणमवश्यं । २. अष्टमात् । १. व्याहरेदन्यत्र । २. यस्तां चोद्वहते । ३. तथैव ऋणं ।