याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 264, कुल 782 में से
संदर्भ में पढ़ें२०८ | याज्ञवल्क्यस्मृतिः देयं, न वृद्धिः। तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य । एतच्चोत्तरश्लोके स्पष्टी- क्रियते ॥ ५० ॥ भाषा-पिता के परदेश जाने पर, मर जाने पर या व्यसन में (असाध्य रोग से पीड़ित) होने पर पुत्र और पौत्र उसके द्वारा लिया गया ऋण देवें। यदि वे अस्वीकार करें तो साक्षियों द्वारा प्रमाणित होने पर दें ॥ ५० ॥ ऋणापाकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास्तेषां च समवाये क्रमोऽपि दर्शितः । इदानीं कत्र्रन्तरसमवाये च क्रममाह- रिक्थग्राह ऋणं दाप्यो योषित्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ ५१ ॥ अन्यदीयं द्रव्यमन्यस्य क्रयादिव्यतिरेकेण यत्स्वकीयं भवति तद्रिक्थम् । विभागात् रिक्थं गृह्णातीति रिक्थग्राहः, स ऋणं दाप्यः । एतदुक्तं भवति- 'यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्यो न चौरादिरिति । योषितं भार्यां गृह्णातीति योषिद्ग्राहः, स तथैवर्णं दाप्यः । यो यदीयां योषितं गृह्णाति स तत्कृतमृणं दाप्यः । योषितोऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः । पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्यः, अन्यमाश्रितमन्याश्रितं, अन्याश्रितं मातृपि- तृसंबन्धि द्रव्यं यस्यासावन्याश्रितद्रव्यः, न अन्याश्रितद्रव्योऽनन्याश्रितद्रव्यः, पुत्रहीनस्य रिक्थिनः ऋणं दाप्य इति संबन्धः । एतेषां समवाये क्रमश्च पाठक्रम एव । 'रिक्थग्राह ऋणं दाप्यः, तदभावे योषिद्ग्राहः, तदभावे पुत्र इति । नन्वेतेषां समवाय एव नोपपद्यते; 'न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः' इति पुत्रे सत्यन्यस्य रिक्थग्रहणासंभवात् । योषिद्ग्राहोऽपि नोपपद्यते; (मनुः ५।१६२)-'न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते' इति स्मरणात् । तथा तदृणं पुत्रो दाप्य इत्यप्ययुक्तम् ; 'पुत्रपौत्रैर्ऋणं देयम्' (व्य० ५०) इत्यु- क्तत्त्वात् । 'अनन्याश्रितद्रव्य' इति विशेषणमप्यनर्थकम् ; पुत्रे सति द्रव्यस्यान्या- श्रयणासंभवात्, संभवे च रिक्थग्राह इत्यनेनैव गतार्थत्वात् । 'पुत्रहीनस्य रिक्थिनः' इत्येतदपि न वक्तव्यम् । पुत्रे सत्यपि 'रिक्थग्राह ऋणं दाप्यः' इति स्थितम् । असति पुत्रे रिक्थग्राहः सुतरां दाप्य इति सिद्धमेवेति । अत्रोच्यते-पुत्रे सत्य- प्यन्यो रिक्थग्राही संभवति; क्लीबान्धबधिरादीनां पुत्रत्वेऽपि रिक्थैहरत्वाभावात् । तथा च क्लीबादीननुक्रम्य 'भर्तव्याः स्युर्निरंशकाः' (व्य० १४०) इति वक्ष्यति । तथा 'सवर्णपुत्रोऽप्यन्यायवृत्तिर्न लभेत्तैकेषाम्' इति गौतमस्मरणात् । अतश्च क्लीबादिषु पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णपुत्रे सति रिक्थग्राही पितृव्यतत्पुत्रादिः । योषि- १. स्पष्टयिष्यते । २. ऋक्थिनः । ३. रिक्थग्राहाभावात् । ४. भर्तव्यास्तु । भर्तव्यान्न ।