याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 265, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २०६ द्ग्राहो यद्यपि शास्त्रविरोधेन न संभवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृत- र्णापाकरणाधिकारी भवत्येव । योषिद्-ग्राहो यश्चतसृणां स्वैरिणीनामन्तिमं गृह्णाति, यश्च पुनर्भूवां तिसृणां प्रथमाम्, यथाह नारदः—'परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ कन्यैवाक्षतयो- निर्या पाणिग्रहणदूषिता । पुनर्भूः १प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥ देशधर्मा- नवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसाऽन्यस्मै सा द्वितीया प्रकीर्तिता ॥' उत्पन्नसाहसा उत्पन्नव्यभिचारा । —'असत्सु देवरोषु स्त्री बान्धवैर्या प्रदीयते । सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥ स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति । कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥ कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता । पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्तिता ॥ मृते भर्तरि तु प्राप्तान्देवरोदीनपास्य या । उपगच्छेत्परं कामात्सा तृतीया प्रकीर्तिता ॥ २प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा च या । तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥ अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भूवाम् । ऋणं तयोः पतिकृतं दद्याद्यस्ता उपाश्रितः ॥' इति । तथाऽन्योऽपि योषिद्ग्राह ऋणापाकरणेऽधिकारी तेनैव दर्शितः—'या तु सप्रधनैव स्त्री साऽपत्या वाऽन्यमाश्रयेत् । सोऽस्या दद्यादृणं भर्तु- रुत्सृजेद्वा तथैव ताम् ॥' प्रकृष्टेन धनेन सह वर्तत इति सप्रधना, बहुधनेति यावत् । तथा 'अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । ३ऋणं वोढुः स भजते सैव चास्य धनं स्मृतम् ॥' इति पुत्रस्य पुनर्वचनं क्रमार्थम् । 'अनन्या- श्रितद्रव्य' इति बहुषु पुत्रेषु रिक्थाभावेऽप्यंशग्रहणयोग्यस्यैवर्णपाकरणेऽधिकारो नायोग्यस्यान्धादेरित्येवमर्थम् । 'पुत्रहीनस्य रिक्थिन' इत्येतदपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्याः, नान्यथेत्येवमर्थम् । पुत्रपौत्रौ च रिक्थग्रहणाभावेऽपि दाप्यावित्युक्तम्, यथाह नारदः ( १।४ )—'क्रमद्वया- हतं प्राप्तं पुत्रैर्ऋणमुद्धृतम् । दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते ॥' इति सर्वं निरवद्यम् ॥ यद्वा,—योषिद्ग्राहभावे पुत्रो दाप्य इत्युक्तम् । पुत्राभावे योषिद्ग्राहो दाप्य इत्युच्यते । 'पुत्रहीनस्य रिक्थिनः' इति 'रिक्थ'शब्देन योषिदेवोच्यते । 'सैव चास्य धनं स्मृतम्' इति स्मरणात्, 'यो यस्य हरते दारान्स तस्य हरते धनम्' इति च ॥ ननु योषिद्ग्राहाभावे पुत्रो ऋणं दाप्यः, पुत्राभावे योषिद्ग्राह इति परस्परविरुद्धम् । उभयसद्भावे न कश्चिद्दाप्य इति । नैष दोषः; अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे पुत्रो दाप्यः; पुत्राभावे तु निर्धननिरपत्ययोषिद्ग्राही दाप्य इति । एतदेवोक्तं नारदेन ( १।२३ )—'धनस्त्रीहारिपुत्राणाममृग्भाग्यो धनं हरेत् । पुत्रोऽसतोः
१. प्रथमा नाम । २. प्राप्ता देशाद्धरात्क्रीता । ३. ऋणमोढुः ।