भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 266, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 266

२१० याज्ञवल्क्यस्मृतिः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः' ॥ इति । धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत्स ऋणभाक् पुत्रोऽसतोः स्त्रीधनिनोः, स्त्री च धनं च स्त्रीधने, ते विद्येते ययोस्तौ स्त्रीधनिनौ, तयोः स्त्रीधनिनोरसतोः पुत्र एव ऋणभाक् भवति । धनिपुत्रयोरसतोः स्त्रीहार्यैवर्णभाक् । स्त्रीहार्यभावे पुत्र ऋणभाक्, पुत्राभावे स्त्रीहारीति विरोधाभासपरिहारः पूर्ववत् । 'पुत्रहीनस्य रिक्थिनः' इत्यस्यान्या व्याख्या—एते धनस्त्रीहारिपुत्रा ऋणं कस्य दाप्या इत्यपेक्षायां उत्तमर्णस्य दाप्याः; तदभावे तत्पुत्रादेः, पुत्राद्यभावे कस्य दाप्या इत्यपेक्षायामिदमुपतिष्ठते- ‘पुत्रहीनस्य रिक्थिनः' इति । पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थ- ग्रहणयोग्यः सपिण्डादिस्तस्य रिक्थिनो दाप्याः । तथा च नारदेन (१।११२) 'ब्राह्मणस्य तु यद्देयं सान्वयस्य च नास्ति चेत् । निर्वपेत्तत्सकुल्येषु तदभावेऽस्य बन्धुषु ॥' इत्यभिहितम्—'यदा तु न सकुल्याः स्युर्न च संबन्धिबान्धवाः । तदा दद्याद् द्विजेभ्यस्तु तेष्वसत्स्वप्सु निक्षिपेत् ॥' नारदः (१।११३) इति ॥५१॥ भाषा—रिक्थ (सम्पत्ति का भाग) लेने वाले (सम्पत्ति के स्वामी द्वारा लिये गये) ऋण को लौटावें, स्त्री को ग्रहण करने वाला उसके मृत पति का लिया ऋण भी दे । जिसका धन पुत्र के अतिरिक्त अन्य को न मिला हो उसका ऋण पुत्र देवे और पुत्रहीन ऋणी का धन उसकी सम्पत्ति का भाग लेने वाले चुकावें ॥ ५१ ॥ अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन्प्रसङ्गादन्यदपि प्रतिषेधति— भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥ ५२ ॥ प्रतिभुवो भावः प्रातिभाव्यं, भ्रातॄणां दम्पत्योः पितापुत्रयोश्चाविभक्ते द्रव्ये द्रव्यविभागात्प्राक्प्रातिभाव्यमृणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपि तु प्रतिषिद्धं, साधारणधनत्वात् । प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यावसानत्वात्, ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च परस्परानुमतिव्यतिरेकेण, परस्परा- नुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव । विभागादूर्ध्वं तु परस्परा- नुमतिव्यतिरेकेणापि भवति ॥ ननु दम्पत्योर्विभागात्प्राक्प्रातिभाव्यादिप्रतिषेधो न युज्यते; तयोर्विभागाभावेन विशेषणानर्थक्यात् । विभागाभावश्चापस्तम्बेन दर्शितः (आप० ध० २।१४-१६)—'जायापत्योर्न विभागो विद्यते' इति । सत्यम्; श्रौतस्मार्ताग्निसाध्येषु कर्मसु तत्फलेषु च विभागाभावो न पुनः १. विरोधप्रतिभासः । २. इति विवक्षायां । ३. तत्स्त्रीपुत्रादेः । ४. न चास्ति चेत् । ५. भावे स्वबन्धुषु । ६. द्रव्यव्ययावसानत्वात् ।