भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 267, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 267

व्यवहाराध्यायः २११ सर्वकर्मसु द्रव्येषु वा। तथा हि—'जायापत्योर्न विभागो विद्यते' इत्युक्त्वा किमिति न विद्यते इत्यपेक्षायां हेतुमुक्तवान्—'पाणिग्रहणाद्धि सहत्वं कर्मसु', 'तथा पुण्यफलेषु च' (आप० ध० २।१४, १७-१८) इति। हि यस्मात्पाणि- ग्रहणादारभ्य कर्मसु सहत्वं श्रूयते—'जायापती अग्निमादधीयाताम्' इति, तस्मादाधाने सहाधिकारादाधानसिद्धाग्निसामध्ये कर्मसु सहाधिकारः। तथा 'कर्म स्मार्तं विवाहानौ' (आ० ९७) इत्यादिस्मरणाद्विवाहसिद्धाग्निसाम्येषु कर्मसु सहाधिकार एव। अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः पृथगेवाधिकारः संपद्यते। तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते—'दिवि ज्योतिरजरमारभेताम्' इत्यादि। येषु पुण्यकर्मसु सहाधिकार- स्तेषां फलेषु सहत्वमिति बोद्धव्यं, न पुनः पूतानां भर्तृनज्ञयानुष्ठितानां फले- ष्वपि॥ ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम्; 'द्रव्यपरिग्रहेषु च' 'नहि भर्तुर्वि- प्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति' (आप० ध० २।१४।१८-२०) इति। सत्यम्; द्रव्यस्वामित्वं पत्न्या दर्शितमनेन, न पुनर्विभागाभावः। यस्मात् 'द्रव्यपरिग्रहेषु च' इत्युक्त्वा तत्र कारणमुक्तम्—'भर्तुर्विप्रवासे नैमित्तिकेऽ- वश्यकर्तव्ये दानेऽतिथिभोजनभिक्षाप्रदानादौ हि यस्मान्न स्तेयमुपदिशन्ति मन्वादयस्तस्माद्भार्याया अपि द्रव्यस्वामित्वमस्ति, अन्यथा स्तेयं स्यात्' इति। तस्माद्भर्तुरिच्छया भार्याया अपि द्रव्यविभागो भवत्येव, न स्वेच्छया। यथा वक्ष्यति (व्य० ११५)—'यदि कुर्यात्समानंशान्पत्न्यः कार्याः समांशिकाः' इति॥ ५२॥ भाषा—अविभक्त (संयुक्त) रहने वाले भाइयों, पति-पत्नी, पिता और पुत्र का प्रातिभाव्य (जामिन) एवं ऋण और साक्ष्य का विधान (मनु आदि ने) नहीं किया है॥ ५२॥ अधुना प्रातिभाव्यं निरूपयितुमाह— दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते। आद्यौ तु वितथे दाप्यावितरस्य सुता अपि॥ ५३॥ प्रातिभाव्यं नाम विश्वासार्थं पुरुषान्तरेण सह समयः, तच्च विषयभेदात्त्रिधा भिद्यते। यथा दर्शने 'दर्शनापेक्षायां एनं दर्शयिष्यामी'ति। प्रत्यये·विश्वासे, 'मम प्रत्ययेनास्य धनं प्रयच्छ, नायं त्वां वञ्चयिष्यते, यतोऽमुकस्य पुत्रोऽयं, उर्वरा- प्रायभूरस्य ग्रामवरोऽस्ती'ति। दाने 'यद्ययं न ददाति तदानीमहमेव दास्या- मी'ति। 'प्रातिभाव्यं विधीयत' इति प्रत्येकं संबध्यते। आद्यौ तु दर्शनप्रत्यय- १. भार्यायामपि। २. वरोऽस्तीति। ३. संबन्धः। १४ या०