भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 260, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 260

२०४ याज्ञवल्क्यस्मृतिः सधनमधमर्णिकं प्रत्युक्तम्, अधुना निर्धनमधमर्णिकं प्रत्याह - हीनजातिं परिक्षीणमृणार्थं कर्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥ ४३ ॥ ब्राह्मणादिजातिरुत्तमर्णो हीनजातिं क्षत्रियादिजातिं परिक्षीणं निर्धनमृणार्थं ऋणनिवृत्त्यर्थं कर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोघेन । ब्राह्मणस्तु पुनः परिक्षीणो निर्धनः शनैःशनैः यथोदयं यथासंभवमृणं दाप्यः । अत्र च 'हीनजाति' ग्रहणं समानजातेरप्युपलक्षणम् । अतश्च समानजातिमपि परिक्षीणं यथोचितं कर्म कारयेत् । 'ब्राह्मण'ग्रहणं च श्रेयो जातेरुपलक्षणम् । अतश्च क्षत्रियादिरपि परिक्षीणो वैश्यादेः शनैःशनैर्दाप्यो यथोदयम् । एतदेव मनुना स्पष्टीकृतम् (८।१७७) -'कर्मणापि समं कुर्याद्धनिकेनाधमर्णिकः । समोऽपकृष्टजातिश्च दद्याच्छ्रेयांस्तु तच्छनैः ॥' इति । उत्तमर्णेन समं निवृत्तोत्तमर्णाधमर्णव्यपदेश- मात्मानमधमर्णः कर्मणा कुर्यादित्यर्थः ॥ ४३ ॥ भाषा-(धनी से) निम्नजाति के ऋणी से जिसके पास ऋण लौटाने के लिए धन न हो, धनी व्यक्ति के यहाँ उसकी जाति के अनुरूप कार्य करावे । यदि इस प्रकार का असमर्थ ऋणी ब्राह्मण हो तो शनैः-शनैः (थोड़ा- थोड़ा करके) उसकी आय के अनुसार धन वसूल करे ॥ ४३ ॥ मध्यस्थस्थापितं न वर्धते- दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । मध्यस्थस्थापितं ४चेत्स्याद्वर्धते न ततः परम् ॥ ४४ ॥ किंच, उपचयार्थं प्रयुक्तं धनं अधमर्णेन दीयमानमुत्तमर्णो वृद्धिलोभाद्यदि न गृह्णाति तदाऽधमर्णेन मध्यमहस्ते स्थापितं यदि स्यात्तदा ततः स्थापनादूर्ध्वं न वर्धते । अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्ववद्वर्धत एव ॥४४॥ भाषा-यदि धन देने वाला व्यक्ति ब्याज के लिये ऋण दिये गये धन को ऋणी द्वारा लौटाये जाने पर भी (ब्याज के लोभ से) ग्रहण नहीं करता और उस धन को ऋणी किसी मध्यस्थ के पास जमा कर दे तो उसके बाद उसकी वृद्धि (ब्याज) नहीं लगती ॥ ४४ ॥ इदानीं देयमृणं यद्वा येन च देयं तदाह- अविभक्तैः कुटुम्बार्थे यहणं तु कृतं भवेत् । दद्युस्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ ४५ ॥ १. मृणार्थं कर्म । २. द्वनिकायाधमर्णिकः । ३. पितं यत्स्यात् ४. तत्स्यात् । ५. पूर्वं वर्धत एव ।