भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 244, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 244

स्थापि वास्तवो व्यवहारो भवत्येव । 'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः' (व्य० १९) इति नियमात् ॥ अथ मतम् । यद्यपि न वस्तुहानिर्नापि व्यवहारहानिस्त- थापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का भवतीति तन्निवृत्तये तूष्णीं न स्थात- व्यमित्युपदिश्यत इति । तच्च न-स्मार्तकालाया भुक्तेर्हानिशङ्काकारणत्वाभावात्, तूष्णीं न स्थातव्यमित्येतावन्मात्राभिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्यते-विंशतिग्रहणमूर्ध्वं पत्रदोषोद्भावननिराकरणार्थम् । यथाह कात्यायनः- 'शक्तस्य संनिधावर्थो यस्य लेख्येन भुज्यते। विंशतिवर्षाम्यतिक्रान्तं तत्पत्रं दोषव- र्जितम् ॥' इति, तदपि न'-आध्यादिष्वपि विंशतेरूर्ध्वं पत्रदोषोद्भावननिराकरणस्य संत्वेनाधिसिमेत्याद्यपवादासम्भवात् । यथाह कात्यायनः-'अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः । तेन लेख्येन तत्सिद्धिलेंख्यदोषविवर्जिता ॥' तथा-सी- माविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥' इति । एतेन 'धनस्य दशवार्षिकी' इत्येतदपि प्रयुक्तम् । तस्मादस्य श्लोकस्य सम्योऽर्थो वक्तव्यः। उच्यते-भूमेर्धनस्य च फलहानिरिह विवक्षिता, न वस्तुहानिर्नापि व्यवहारहानिः । तथा हि-निराक्रोशं विंशतिवर्षोपभोगादूर्ध्वं यद्यपि स्वामी न्यायतः क्षेत्रं लभते, तथापि फलानुसरणं न लभते; अप्रतिषेधलक्षणा- स्वापराधादस्माच्च वचनात् । परोक्षभोगे तु विंशतेरूर्ध्वमपि फलानुसरणं लभत एव; 'पश्यतः' इति वचनात् । प्रत्यक्षभोगे च साक्रोशे, 'अब्रुवतः' इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते; विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि कुलस्थ स्वत्वात्तद्धानिरनुपपन्नैव । बाढम्, तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा-तदुत्पन्नपूगपनसवृक्षादीनां यत्पुनस्तदुत्पन्नमुपभोगाम्नष्टं तत्र स्वरूपनाशा- देव स्वत्वनाशः । 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि। चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत्तत्समं द्रव्यदानं प्राप्तं, 'हानिर्विशतिवार्षिकी' इत्यनेनापोद्यते । राजदण्डः पुनरस्त्येव विंशतेरूर्ध्वमपि, अनागमोपभोगादपवादाभावाच्च । तस्मात्स्वाम्युपेक्षालक्षणस्वा- पराधादस्माच्च वचनाद्विंशतेरूर्ध्वं फलं नष्टं न लभत इति स्थितम् । एतेन 'धनस्य दशवार्षिकी, इत्येतदपि व्याख्यातम् ॥ २४ ॥ भाषा-स्वामी के देखते रहने और आपत्ति न करने पर भूमि दूसरे व्यक्ति द्वारा जोती जाने पर बीस वर्ष में उसके (स्वामी के) अधिकार से निकल जाती है और इस प्रकार धन का उपभोग दूसरा करे तो दस वर्ष के बाद स्वामी का अधिकार नष्ट हो जाता है ॥ २४ ॥ १. सम्योऽर्थो निर्दुष्टोऽर्थः सम्योऽन्योऽर्थो ।