भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 245, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 245

व्यवहाराध्यायः १८६ अस्यापवादमाह- आधिसीमोप निक्षेपजडबालधनैर्विना । ^१तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥ २५ ॥ आधिश्च सीमा च उपनिक्षेपश्च आधिसीमोपनिक्षेपाः । जडश्च बालश्च जडबालौ, तयोर्धने जडबालधने; आधिसीमोपनिक्षेपाश्च जडबालधने च आधिसीमोपनिक्षेपजडबालधनानि तैर्विना । उपनिक्षेपो नाम रूपकसंख्याप्रदर्श- नेन रक्षणार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः- 'स्वं द्रव्यं यत्र विश्र- म्भान्निचिपेत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥' इति उप- निधानमुपनिधिः । आध्यादिषु पश्यतोऽब्रुवतोऽपि भूमेर्विंशतेरूर्ध्वं धनस्य च दशभ्यो वर्षेभ्य ऊर्ध्वमप्युपचयहानिर्न भवति; पुरुषापराधस्य तथाविधस्या- भावात् , उपेक्षाकारणस्य तत्र तत्र संभवात् । तथा हि-आधेराधिस्वोपाधिक एव भोग इत्युपेक्षायामपि न पुरुषापराधः । सीम्नश्चिरकृततुषाङ्गारादिचिह्नैः सुसाध्यत्वादुपेक्षा संभवति; उपनिक्षेपोपनिध्योर्भुक्तेः प्रतिषिद्धत्वात्, प्रतिषेधाति- क्रमोपभोगे च सोद्वैयफललाभादुपैक्षोपपत्तिः । जडबालयोर्जडत्वाद्वालत्वादुपेक्षा युक्तैव; राज्ञो बहुकार्यव्याकुलत्वात् , स्त्रीणामज्ञानात्प्रागल्भ्याच्च । श्रोत्रिय- स्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वादुपेक्षा युक्तैव । तस्मादाध्यादिषु सर्वत्रोपेक्षाकारणसंभवात्समक्षभोगे निराक्रोशे च न कदाचिदपि फलहानिः॥२५॥ भाषा-आधि ( बन्धक ), सीमा, उपनिक्षेप, जड़ ( मन्दबुद्धि ), बालक का धन, उपनिधि, राजधन, स्त्रीधन, श्रोत्रिय का धन दूसरे द्वारा दस या बीस वर्ष तक भोगे जाने पर भी अपने स्वामी के अधिकार से हीन नहीं होते हैं ॥ २५ ॥ आध्यादिषु दण्डविशेषप्रतिपादनार्थमाह- ^४आध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥ २६ ॥ य आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्ता तं विवा- दास्पदीभूतं धनं स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादा- स्पदीभूतद्रव्यसमं राज्ञे दापयेदिति विधिः । यद्यपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि-'मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा' ( व्य० १५५) इत्यादिवक्ष्यमाणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर्दमनं न भवति बहु- १. तथोवनिधि । २. आधित्वनिमित्तकः ३. सोदयफलभा- वात् । ४. आध्यादीनां निहन्तारं दापयेद्धनिने धनम् ।