याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 254, कुल 782 में से
संदर्भ में पढ़ें१६८ याज्ञवल्क्यस्मृतिः
रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर्नष्टस्याधिगमे विधिमुक्त्वा अधुना भूमौ चिरनिखातस्य सुवर्णादेर्निधिशब्दवाच्यस्याधिगमे विधिमाह— राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽर्धं द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ ३४ ॥ इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ ३५ ॥ उक्तलक्षणं निधिं राजा लब्ध्वा अर्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोशे निवेशयेत् । ब्राह्मणस्तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव गृह्णीयात्, यस्मादसौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वद्ब्राह्मणव्यति- रिक्तेन अविद्वद्ब्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगन्त्रे दत्त्वा शेषं निधिं स्वयमाहरेत् । यथाह वसिष्ठः—'अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्ध- रेत्, अधिगन्त्रे षष्ठमंशं, प्रदद्यात्' इति । गौतमोऽपि ( १०।३३।५ )—'निध्य- धिगमो राजधनं भवति, न ब्राह्मणस्याभिरूपस्य, अब्राह्मणोऽप्याख्याता षष्ठमंशं लभेतेत्येके' इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश्चासौ विज्ञातश्च राज्ञेऽप्यनिवेदितविज्ञातः, यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राज्ञा स सर्वं निधिं दाप्यो दण्डं च शक्त्यपेक्षया । अथ निधेरपि स्वाम्यागत्य रूपकसंख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं द्वादशं वाऽंशं स्वयमाहरेत् । यथाह मनुः ( ८।३५ )—'ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥' इति । अंशविकल्प- स्तु वर्णकालाद्यपेक्षया वेदितव्यः ॥ ३४-३५ ॥ भाषा—राजा (इस प्रकार का) धन लेकर उसका आधा ब्राह्मणों को दान कर दे । विद्वान् ब्राह्मण यदि ऐसी निधि पावे तो सम्पूर्ण स्वीकार करे, क्योंकि वह सम्पूर्ण जगत् का स्वामी होता है । (राजा, विद्वान् ब्राह्मण के अतिरिक्त) किसी और से धन लेवे तो उसका छठा अंश लाने वाले को देकर शेष राजा स्वयं ले लेवे । न बताई गई निधि ज्ञात हो जाय तो उसे सम्पूर्ण निधि दण्ड के रूप में दिलवाये ॥ ३४-३५ ॥ चौरहृतं प्रत्याह— देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ ३६ ॥ चौरैर्हृतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् द्रव्यं तस्मै राज्ञा दातव्यम् । हि यस्मात् अददत् अप्रयच्छन् यस्य तदपहृतं १. दद्याद्द्विजेभ्योऽर्धं । २. राजधनं न ब्राह्मणस्य । ३. रूपकसंख्याविधिभिः ।