भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 253, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 253

·व्यवहाराध्यायः १८० भाषा—मत्त (नशे में बुत्त), उन्मत्त (पागल), रोगी, प्रियजन की मृत्यु आदि से विपत्तिग्रस्त, बालक, त्रस्त (शत्रु से भयातुर) व्यक्तियों के ऊपर चलाया गया व्यवहार एवं असंबद्ध व्यक्ति द्वारा चलाया गया व्यवहार सिद्ध या विचारणीय नहीं होता ॥ ३२ ॥ परावस्थ्यं व्यवहारमुक्त्वा इदानीं परावस्थ्यं द्रव्यमाह— प्रणष्टाधि गतं देयं नृपेण धनिने धनम् । विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ॥ ३३ ॥ प्रणष्टं हिरण्यादि शौल्किकस्थानपालादिभिरधिगतं राज्ञे समर्पितं यत्तद्राज्ञा धनिने दातव्यम् । यदि धनी रूपसंज्ञादिभिर्लिङ्गैर्भावयति । यदि न भावयति तदा तत्समं दण्ड्यः; असत्यवादित्वात् । अधिगमस्य स्वत्वनिमित्तत्वात्स्वस्वे प्राप्ते तत्परावृत्तिरनेनोक्ता। अत्र च कालावधिं वक्ष्यति (व्य० १७३)—'शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् । अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः ॥' इति । मनुना पुनः संवत्सरत्रयमवधित्वेन निर्दिष्टम् (८।३०)-'प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परतो नृपतिर्हरेत् ॥' इति । तत्र वर्षत्रयपर्यन्तमवश्यं रक्षणीयम् । तत्र यदि संवत्सरादर्वाक् स्वाम्यागच्छेत्तदा कृत्स्नमेव दद्यात् । यदा पुनः संवत्सरादूर्ध्वमागच्छति, तदा किंचिदङ्गं रक्षण- मूल्यं गृहीत्वा शेषं स्वामिने दद्यात् , यथाह—'आददीताथ षड्भागं प्रणष्टाधि- गतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥' (मनु० ८।३०) इति । तत्र प्रथमे वर्षे कृत्स्नमेव दद्यात्, द्वितीये द्वादशं भागं, तृतीये दशमं, चतुर्थादिषु षष्ठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य चतुर्थोऽशोऽधिगन्त्रे दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थमंशमधिगन्त्रे दत्त्वा शेषं राजा गृह्णीयात् । तथाह गौतमः ( १०।३६-३८)—'प्रणष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यम् । ऊर्ध्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम्' इत्यत्र संवत्सरमित्येक- वचनमविवक्षितम् । 'राजा त्र्यब्दं निधापयेत्' इति स्मरणात् 'हरेत परतो नृपः' इत्येतदपि स्वामिन्यनागते त्र्यब्दादूर्ध्वं व्ययीकरणाम्यनुज्ञानपरम् । ततः पश्चागते तु स्वामिनि व्ययीभूतेऽपि द्रव्ये राजा स्वांशमवतार्य तत्समं दद्यात् । एतच्च हिरण्यादिविषयम् । गवादिविषये वक्ष्यति (व्य० १७४)— 'पणामेकशफे दद्यात्' इत्यादिना ॥ ३३ ॥ भाषा—किसी की खोई हुई वस्तु पाकर राजा उस धन के अधिकारी को वह वस्तु (धन) देवे और यदि वह चिह्नों द्वारा उसे (अपना) प्रमाणित न कर सके तो उसके समान दण्ड का भागी होता है ॥ ३३ ॥ १. रूपकसंख्या । २. षड्भागं । ३. चतुर्थो भागः शेषं राज्ञ इति ।