भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 227, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 227

व्यवहाराध्यायः १७१

च कात्यायनेन — 'आचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ॥' इति । एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहिता- नामुत्तरवदवभासमानानामुत्तराभासत्वमर्थसिद्धम् । स्पष्टीकृतं च स्मृत्यन्तरे — 'संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । पक्षैकदेशव्याप्यन्यत्तथा नैवोत्तरं भवेत् ॥ यद्व्यस्तपदमव्यापि निगूढार्थं तथाकुलम् । व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥ इति । तत्र संदिग्धं—'सुवर्णशतमनेन गृहीत'मित्युक्ते 'सत्यं गृहीतं सुवर्णशतं माषशतं वे'ति । प्रकृतादन्यद्यथा—'सुवर्णशताभियोगे पणशतं धारयामी'ति । अत्यल्पं—'सुवर्णशताभियोगे पणशतं धारयामी'ति । अति- भूरि—'सुवर्णशताभियोगे द्विशतं धारयामी'ति । पक्षैकदेशव्यापि—'हिरण्य- वस्त्राद्यभियोगे हिरण्यं गृहीतं नान्यदि'ति । व्यस्तपदं—ऋणादानाभियोगे पदान्तरेणोत्तरम्, यथा 'सुवर्णशताभियोगे अनेनाहं ताडितः' इति । अव्यापि— देशस्थानादिविशेषणाव्यापि यथा—'मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृत'मिति पूर्वपक्षे लिखिते, 'क्षेत्रमपहृतमि'ति । निगूढार्थं यथा— 'सुवर्णशताभियोगे किमहमेवास्मै धारयामी'त्यत्र ध्वनिना प्राड्विवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुलं पूर्वापरविरुद्धं यथा—'सुवर्णशताभियोगे कृते, सत्यं गृहीतं न धारयामी'ति । व्याख्यागम्यं— दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, अदेशभाषाभिधानेन वा । यथा—'सुवर्णशतविषये पितृऋणाभियोगे, 'गृहीतशतवचनात् सुवर्णानां पितुर्न जानामी'ति । अत्र गृहीतशतस्य पितुर्वचनात् 'सुवर्णानां शतं गृहीत- मि'ति न जानामीति । असारं—न्यायविरुद्धं, यथा 'सुवर्णशतमनेन वृद्ध्या गृहीतं वृद्धिरेव दत्ता न मूल'मित्यभियोगे, 'सत्यं वृद्धिर्दत्ता न मूलं गृहीत' मिति । उत्तरमित्येकवचननिर्देशादुत्तराणां संकरो निरस्तः । यथाह कात्यायनः— 'पक्षैकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे च संकरात्तदनुत्तरम् ॥' इति । अनुत्तरत्वे च कारणं तेनैवोक्तम्—'न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥' इति । मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोर्द्वयोरपि क्रिया प्राप्नोति—'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि' इति स्मरणात् । तदुभयमेकस्मिन्व्यवहारे विरुद्धम् । यथा—'सुवर्णं रूपकशतं चानेन गृहीत'मित्यभियोगे, 'सुवर्णं न गृहीतं, रूपकशतं गृहीतं प्रतिदत्तं चे'ति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्—'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम्' इति । तथा सुवर्णं गृहीतं प्रतिदत्तं,—रूपके व्यवहारमार्गेण पराजितः' इति । अत्र च प्राङ्-


१. रूपकशते ।