याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 228, कुल 782 में से
संदर्भ में पढ़ेंन्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर्वा भावियतव्यम्, कारणोक्तौ तु साक्षिलेख्यादिभिर्भावितव्यमिति विशेषः । एवमुत्तरत्रयसंकरेऽपि द्रष्टव्यम् । यथा—'अनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानी'त्यभियोगे, 'सत्यं सुवर्णं गृहीतं प्रतिदत्तं रूपकशतं न गृहीतं, वस्त्रविषये तु पूर्वन्यायेन पराजितः' इति । एवं चतुः- संकरेऽपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्य तस्यांशस्य तेन तेन विनाऽसिद्धेः क्रमेणोत्तरत्वमेव । क्रमश्चार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनरुभयोः संकरे तत्र यस्य प्रभूतार्थविषयत्वं तत्क्रियोपादानेन पूर्वं व्यवहारः प्रवर्त्तयितव्यः, पश्चादल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्यः । यत्र तु संप्रतिपत्तेरुत्तरान्तरस्य च संकरस्तत्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः । संप्रतिपत्तौ क्रियाभावात् ॥ यथा हारीतेन—'मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं चापि सहान्येन तत्र ग्राह्यं किमुत्तरम् ॥' इत्युक्त्वोक्तम्—'यत्प्रभू- तार्थविषयं यत्र वा स्यात्क्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा ॥' संकीर्णं भवतीति शेषः । शेषोपेक्षया ऐच्छिकक्रमं भवतीत्यर्थः । तत्र प्रभूतार्थं यथा—'अनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानी'त्यभियोगे; 'सत्यम् , सुवर्णं रूपकशतं च न गृहीतं, वस्त्राणि तु गृहीतानि प्रतिदत्तानि चे'ति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्त्तयितव्यः पश्चाद्वस्त्रविषयो व्यवहारः । एवं मिथ्याप्राङ्न्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा तस्मिन्नेवाभियोगे, 'सत्यं सुवर्णं रूपकशतं च गृहीतं प्रति दास्यामि, वस्त्राणि तु न गृहीतानि, गृहीतानि प्रतिदत्तानी'ति वा वस्त्रविषये पूर्वं पराजित इति चोत्तरे संप्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्या- युत्तरक्रियामादाय व्यवहारः प्रवर्त्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्न- पक्षव्यापित्वं यथा—शृङ्गग्राहिकतया कश्चिद्वदति 'इयं गौर्मदीया अमुकस्मिन्काले नष्टा, अद्यास्य गृहे दृष्टे'ति । अन्यस्तु 'मिथ्यैतत्, प्रदर्शितकालात्पूर्वमेवास्म- द्गृहे स्थिता मम गृहे जाता वे'ति वदति । इदं तावत्पक्षनिराकरणसमर्थत्वात्ता- वुत्तरम् । नापि मिथ्यैव; कारणोपन्यासात् । नापि कारणम् ; एकदेशस्याप्य- भ्युपगमाभावात् । तस्मात्सकारणं मिथ्योत्तरमिदम्—अत्र च प्रतिवादिनः क्रिया, 'कारणे प्रतिवादिनि' इति वचनात् ॥ ननु 'मिथ्या क्रिया पूर्ववादे' इति पूर्ववा- दिनः कस्मात्क्रिया न भवति ? तस्य शुद्धमिथ्याविषयत्वात् । 'कारणे प्रति- वादिनी'त्येतदपि कस्माच्छुद्धकारणविषयं न भवति । नैतत्; सर्वस्यापि कारणो- त्तरस्य मिथ्यासहचरितरूपत्वाच्छुद्धकारणोत्तरस्याभावात् ॥ प्रसिद्धकारणोत्तरे
१. कारणोत्तरे तु । २. प्रतिदास्यामि । ३. ऐच्छिकक्रममपेक्ष्याक्रमं भवतीत्यर्थः । ४. ऐच्छिकः क्रमो भवतीत्यर्थः । ५. एतत्प्रदर्शित ।