भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 270, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 270

२१४ याज्ञवल्क्यस्मृतिः प्रतिदातव्यं स्यात् । तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् ; वचनारम्भसामर्थ्यात् । एतच्च हिरण्यविषयम् । ननु १इदं प्रतिभूरिति वचनं द्वैगुण्यमात्रं प्रतिपादयति, तच्च पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते । यथा जातेष्टिविधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः संतत्यभावान्मूलदानमेव प्राप्नोतीति,-तदसत् ; २'वस्त्रधान्यहिरण्यानां चतु- स्त्रिविगुणा परा' ( व्य० ३९ ) इत्यनेनैव कालकलाक्रमेण द्वैगुण्यादिसिद्धेः द्वैगु- ण्यमात्रविधाने चेदं वचनमनर्थकं स्यात् । पशुस्त्रीणां तु कालक्रमपक्षेऽपि संतत्य- भावे स्वरूपदानमेव । यदा प्रतिभूरपि द्रव्यदानान्तरं कियतापि कालेनाधम- र्णेन संघटते तदा संततिरपि३ संभवत्येव । यद्वा पूर्वसिद्धसंतत्या सह पशुस्त्रियो दास्यन्तीति न किंचिदेतत् । अथ प्रातिभाव्यं ४प्रीतिकृतम् , अतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव । नच प्रीतिदत्तस्य याचनाप्राग्वृद्धिरस्ति; यथाह ( नारदः १।१०९ )- 'प्रीतिदत्तं तु यत्किञ्चिद्वर्धते न त्वयाचितम् । याच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम् ॥' इति । अतश्चास्य प्रीतिदत्तस्यायाचितस्यापि दानदिव- सादारभ्य यावद् द्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति, तदप्य- सत् ,-अस्यार्थस्यास्माद्वचनादप्रतीतेः 'द्विगुणं प्रतिदातव्यम्' इत्येतावदिह प्रती- यते । तस्मात्कालक्रममनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति सुष्ठूक्तम् ॥ ५६ ॥ भाषा-जिस प्रतिभू ( या उसके पुत्र ) से राजाने धनी का धन सबके सामने दिलाया हो उसको ऋण लेने वाले दूना देकर चुकावें ॥ ५६ ॥ प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादमाह- संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च । वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ ५७ ॥ हिरण्यद्वैगुण्यवत्कालानावरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्धया दाप्याः । श्लोकस्तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद्द्रव्यं प्रतिभूदत्तं खादकेन तया वृद्धया सह कालविशेषमनपेक्ष्यैव सद्यो दातव्यमिति तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अधमर्णं दर्शयितुमसमर्थ- स्तदा ५तदन्वेषणाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा मोक्त- व्योऽन्यथा प्रस्तुतं धनं दाप्यः; 'नष्टस्यान्येषणार्थं तु दाप्यं पक्षत्रयं परम् । यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥ काले व्यतीते प्रतिभूर्यदि तं नैव १. इदं बचनं । २. वस्त्रादान । ३. संततिरेवं । ४. प्रीतिकृतं च । ५. तदन्वेषणाय । ६. मोक्तव्यो नान्यथा ।