भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 271, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 271

दर्शयेत् । निबन्धं दापयेत्तं तु प्रेते चैष विधिः स्मृतः ॥' इति कात्यायनवच- नात् । लग्नके विशेषनिषेधश्च तेनैवोक्तः—‘न स्वामी न च वै शत्रुः स्वामिना- ऽधिकृतस्तथा । निरुद्धो दण्डितश्चैव संदिग्धश्चैव न क्वचित् ॥ नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः । राजकार्यनियुक्ताश्च ये च प्रव्रजिता नराः ॥ न शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन्वापि पिता यस्य तथैवेच्छा- प्रवर्तकः ॥ नौविज्ञाय ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥' इति । संदिग्धो- ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः ॥ इति प्रतिभूविधिः ॥ धनप्रयोगे द्वौ विश्वासहेतू—प्रतिभूरधिश्च । यथाह नारदः (१।११९)— 'विस्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च' इति । तत्र प्रतिभूर्निरूपितः, इदानीमा- धिर्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तमर्णोऽधि- क्रियते, आधीयत इत्याधिः । स च द्विविधः-कृतकालोऽकृतकालश्च । पुनश्चैकैकशो द्विविधः-गोप्यो भोग्यश्च । यथाह नारदः (१।१२४-२५)—‘अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः । कृतकालोऽपनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ॥'इति । कृते काले आधानकाल एवामुष्मिन्काले दीपोत्स- वादौ ‘मयायम॑धमर्णिको मोक्तव्योऽन्यथा तवैवाधिर्भविष्यती’त्येवं निश्चिते काले उपनेय आत्मसमीपं नेतव्यः, मोचनीय इत्यर्थः । देयं दानम् । देयमनतिक्रम्य यावद् देयम् । उद्यतःनियतः, स्थापित इत्यर्थः। यावद् देयमुद्यतो यावद्देयोद्यतः, गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः ॥ ५७ ॥ भाषा-यदि प्रतिभू से स्त्री और पशु दिलाया गया हो तो संतति सहित स्त्री और पशु दे । धान्य का तिगुना, वस्त्र हो तो चौगुना और तेल-घृत आदि रस हो तो उसका आठगुना प्रतिभू को शीघ्र देवे ॥ ५७ ॥ एवं चतुर्विधस्याधेर्विशेषमाह- आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते । काले कालकृतो नश्येत्फलभोग्यो न नश्यति ॥ ५८ ॥ प्रयुक्ते धने स्वकृतया वृद्धया कालक्रमेण द्विगुणीभूते यद्याधिरधमर्णेन द्रव्यदानेन न मोक्ष्यते तदा नश्यति । अधमर्णस्य धनं प्रयोक्तुः स्वं भवति । कालकृतः कृतकालः, आहिताग्न्यादिषु पाठात् कालशब्दस्य पूर्वनिपातः। स तु काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात्प्रागूर्ध्वं वा। फलभोग्यः फलं भोग्यं यस्यासौ फलभोग्यः,-क्षेत्रारामादिः, स कदाचिदपि न नश्यति । कृतकालस्य गोप्यस्य १. दापयेत्तत्तु प्रेते चैव । २. प्रयुक्तास्तु । ३. नाविज्ञातो । ४. माधिर्र्मो । ५. निरूपिते ।