भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 272, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 272

भोगस्य च तत्कालातिक्रमे नाश उक्तः- 'काले कालकृतो नश्ये'दिति । अकृत- कालस्य भोग्यस्य नाशाभाव उक्तः- 'फलभोग्यो न नश्यती'ति । पारिशेष्यादाधिः प्रणश्येदित्येतदकृतकालगोप्याधिविषयमवतिष्ठते। द्वैगुण्यातिक्रमेण निरूपितकाला- तिक्रमण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं, बृहस्पतिवचनात् ( ११।२७- २८) 'हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः। बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ॥ तदन्तरा धनं दत्त्वा ऋणी बन्धकमाप्नुयात् ॥' इति ॥ नन्वाधिः प्रणश्येदित्यनुपपन्नम् । अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् । धनिनश्च स्वत्वहेतोः प्रतिग्रहक्रयादेरभावात् मनुवचनविरोधाच्च । (८।१४३)- 'न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः' इति । कालेन संरोधः कालसंरो- धश्चिरकालमवस्थानं तस्मात्कालसंरोधाच्चिरकालावस्थानादाधेर्न निसर्गोऽस्ति, नान्यत्राधीकरणमस्ति, न च विक्रयः । एवमाधीकरणविक्रयप्रतिषेधाद्धनिनः स्वत्वाभावोऽवगम्यत इति । उच्यते- आधीकरणमेव लोके सोपाधिकस्वत्व- निवृत्तिहेतुः । आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । तत्र धनद्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यदानस्यात्यन्तनिवृत्तेरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्वनिवृत्तिः उत्तमर्णस्य चात्यन्तिकं स्वत्वं भवति । नच मनुवचनविरोधः । यतः मनुः ( ८।१४३ ) - 'नत्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात्' इति । भोग्याधिं प्रस्तुत्येदमुच्यते - 'न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः' इति । भोग्यस्याधेश्चिरकालावस्थानेऽप्याधीकरणविक्रयनिषेधेन धनिनः स्वत्वं नास्तीति । इहाप्युक्तं 'फलभोग्यो न नश्यती'ति । गोप्याधौ तु पृथगारब्धं मनुना ( ८।१४४ ) - 'न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत्' इति । इहापि वक्ष्यते - गोप्यधिभोगे नो वृद्धिरिति । आधिः प्रणश्येद् द्विगुणे इति तु गोप्याधिं प्रत्युच्यत इति सर्वमविरुद्धम् ॥ ५८ ॥

भाषा - यदि कालक्रम से ब्याज द्वारा बढ़कर ऋण के दूना हो जाने पर बन्धक रखे हुए द्रव्य को न छुड़ावे तो वह अपने समय से प्रणष्ट हो जाता है (उस पर ऋणी का अधिकार नहीं रह जाता) किन्तु जिस आधि (बन्धक) का फल धनी व्यक्ति को मिलता हो (जैसे खेत आदि) उस पर से बन्धक रखने वाले का अधिकार समाप्त नहीं होता ॥ ५८ ॥

गोप्याधिभोगे नो वृद्धिः सोपकारे चै हापिते । नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥ ५९ ॥

१. कृतावधौ । २. काले प्राप्ते च । ३. चिरन्तनकाला। ४. स्वत्वं न भवति । ५. ऽथ हापिते ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 272, कुल 782 में से · BharatKosha