याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 276, कुल 782 में से
संदर्भ में पढ़ें२२० याज्ञवल्क्यस्मृतिः भाषा-अथवा उस बन्धक का उस समय जितना मूल्य लगता हो वह कह कर विना ब्याज के ही बन्धक को वहीं रहने दे (उसके बाद उसकी वृद्धि नहीं होती) । यदि ऋण धन दूना हो जाय तो विना ऋणी के भी साक्षियों के समक्ष उस बन्धक की वस्तु को धनी बेच सकता है ॥ ६३ ॥ भोग्याधौ विशेषमाह- यदा तु द्विगुणीभूतमृणमाधौ तदा खलु । मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ ६४ ॥ यदा प्रयुक्तं धनं स्वकृतया वृद्धया द्विगुणीभूतं तदाधौ कृते तदुत्पन्ने आध्युत्पन्ने द्रव्ये द्विगुणे धनिनः प्रविष्टे धनिनाऽऽधिर्मोक्तव्यः । यदि वादावे- वाधौ दत्ते 'द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्यः' इति, परिभाषया कारणान्तरेण वा भोगाभावेन यदा द्विगुणीभूतमृणं तदा, आधौ भोगार्थं धनिनि प्रविष्टे तदुत्पन्ने द्रव्ये द्विगुणे सत्याधिर्मोक्तव्यः । अधिकोपभोगे तदपि देयम् । सर्वथा सवृद्धिकमूलार्णापाकरणार्थाध्युपभोगविषयमिदं वचनम् । तमेनं क्षयाधिमाचक्षते लौकिकाः । यत्र तु वृद्धयर्थ एवाध्युपभोग इति परिभाषा, तत्र द्वैगुण्यातिक्रमेऽपि यावन्मूलदानं तावदुपभुङ्क्त एवाधिम् । एतदेव स्पष्टीकृतं बृहस्पतिना (११।३३-४)-'ऋणी बन्धमवाप्नुयात् । फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥ यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी । ऋणी च न लभेद्वन्धं परस्परमतं विना ॥' इति । अस्यार्थः-फलं भोग्यं यस्यासौ फलभोग्यः बन्धक आधिः । स च द्विविधः-सवृद्धिकमूलापाकरणार्थो वृद्धिमात्रापाकरणार्थश्च । तत्र च सवृद्धिमूलापाकरणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकालस्तमा- प्नुयादृणी । यदा सवृद्धिकं मूलं फलद्वारेण धनिनः प्रविष्टं तदा बन्धमाप्नुया- दित्यर्थः । वृद्धिमात्रापाकरणार्थं तु बन्धकं सामकं दत्त्वाप्नुयादृणी । समं मूलं, सममेव सामकम् ॥ अस्यापवादमाह-यदि प्रकर्षितं तत्स्यात् । तत् बन्धकं प्रकर्षितमतिशयितं वृद्धेरप्यधिकफलं यदि स्यात् 'तदा न धनभाग्धनी' सामकं न लभेत धनी । मूलमदत्त्वैव ऋणी बन्धमवाप्नुयादिति यावत् । अथ स्वप्रकर्षितं तद्वन्धकं वृद्धयेऽप्यपर्याप्तं, तदा सामकं दत्त्वापि बन्धं न लभेताधमर्णः । वृद्धिशेषमपि दत्त्वैव लभेतेत्यर्थः । पुनरुभयत्रापवादमाह-'परस्परमतं विना' उत्तमर्णाधमर्णयोः परस्परानुमत्यभावे 'यदि प्रकर्षितम्' इत्याद्युक्तम्, परस्परा- नुमतौ तूत्कृष्टमपि बन्धकं यावन्मूलदानं तावदुपभुङ्क्ते धनी, निकृष्टमपि मूलमात्रदाने नैवाधमर्णो लभत इति ॥ ६४ ॥ १. मूल्यापाकरणार्था, मूलर्णापाकरण । २. मूल्यदानं । ३. बन्धः आधिः । ४. मूल्यमदत्त्वैव । ५. वृद्धिशेषमदत्त्वैव ।