भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 277, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 277

व्यवहाराध्यायः २२१ भाषा—( भोग्य आधि होने पर ) ऋण दूना होने पर ऋणी व्यक्ति जब दूना धन प्राप्त कर ले तो बन्धक की वस्तु छोड़ देवे ॥ ६४ ॥ इति ऋणादानप्रकरणम् । अथ ^१उपनिधिप्रकरणम् ४ उपनिधिं प्रत्याह— वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ ६५ ॥ निक्षेपद्रव्यस्याधारभूतं द्रव्यान्तरं वासनं करण्डादि, तत्स्थं वासनस्थं यद्द्रव्यं रूपसंख्यादिविशेषमनाख्याय अकथयित्वा मुद्रितमन्यस्य हस्ते रक्षणार्थं विश्रम्भादर्प्यते स्थाप्यते तद्द्रव्यमौपनिधिकमुच्यते । यथाह नारदः—'असं- ख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥' इति । प्रतिदेयं तथैव तत् । यस्मिन्स्थापितं तेन तथैव पूर्वमुद्रादिचिह्नितम- र्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् ॥ ६५ ॥ भाषा—जब किसी पात्र में रखकर रूप या संख्या आदि बताये बिना कोई वस्तु दूसरे को ( निक्षेप के रूप में ) दी जाती है तब वह द्रव्य उपनिधि कहलाता है; उसे ज्यों के त्यों लौटाना होता है ॥ ६५ ॥ ‘प्रतिदेयम्’ ( व्य० ६५ ) इत्यस्यापवादमाह— न दाप्योऽपहृतं तं^२ तु राजदैविकतस्करैः । तमुपनिधिं राज्ञा दैवेनोदकादिना तस्करैर्वाऽपहृतं नष्टं न दाप्योऽसौ यस्मिन्नुपनिहितम् । धनिन एव तद्द्रव्यं नष्टं यदि जिह्मकारितं न भवति । यथाह नारदः ( १।९ )—'ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः । दैवराजकृते तद्वन्न^३ चेत्तज्जिह्मकारितम् ॥' इति ॥— अस्यापवादमाह— भ्रेषै^४श्चेन्मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम् ॥ ६६ ॥ स्वामिना मार्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजा- दिभिर्भ्रेषो नाशः संजातस्तथापि तद्द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च तत्समं दण्डम् ॥ ६६ ॥


१. निक्षेप । २. तत्तु । ३. तद्भन्नवेत्तज्जिह्म तद्भग्नवेदाजिह्म । ४. भ्रंशश्चेन्मा ।