याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 278, कुल 782 में से
संदर्भ में पढ़ेंभाषा—किन्तु उसके राजा, दैविक उत्पात द्वारा नष्ट या चोरों द्वारा चुरा लिये जाने पर वह (उपनिधि द्रव्य) प्रतिदेय नहीं होता। और यदि उपनिधि रखने वाले के मांगने पर भी वह वस्तु नहीं लौटाई जाती एवं उसके बाद राजा आदि द्वारा नष्ट हो जाती है तो उसे देना होता है और साथ ही उसके बराबर दण्ड भी चुकाना होता है ॥ ६६ ॥ भोक्तारं प्रति दण्डमाह— आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् । यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यमाजीवन्नुपभुङ्क्ते व्यवहरति वा प्रयोगादिना लाभार्थमसावुपभोगानुसारेण लाभानुसारेण च दण्ड्यः, तं चोपनिधिं सोदयमुपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धेःप्रमाणं च कात्यायनेनोक्तम्—'निक्षेपं वृद्धिशेषं च क्रयं विक्रयमेव च । याच्यमानो न चेद्दद्याद्वर्धते पञ्चकं शतम् ॥' इति । एतच्च भक्षिते द्रष्टव्यम् । उपेक्षाज्ञाननष्टे तु तेनैव विशेषो दर्शितः—'भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् । किंचिन्न्यूनं प्रदाप्यः स्याद् द्रव्यमज्ञाननाशितम् ॥' इति । 'किंचिन्न्यूनम्' इति चतुर्थांशहीनम् ॥ उपनिधेर्धर्मान्याचितादिष्वतिदिशति— याचितान्वाहितन्यासनिक्षेपादिष्वयं विधिः ॥ ६७ ॥ विवाहोद्युत्सवेषु वस्त्रालंकारादि याचित्वाऽऽनीतं याचितम् । यदेकस्य हस्ते निहितं द्रव्यं तेनाप्यनु पश्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् । न्यासो नाम गृहस्वामिनेऽदर्शयित्वा तत्परोक्षमेव गृहजनहस्ते प्रक्षेप्यो गृहस्वामिने समर्पणीयमिति । समक्षं तु समर्पणं निक्षेपः । 'आदि'शब्देन सुवर्णकारादिहस्ते कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः, प्रतिन्यासस्य च परस्परप्रयोजनापेक्षया 'त्वयेदं मदीयं रक्षणीयं, मयेदं त्वदीयं रक्ष्यते' इति न्यस्तस्य ग्रहणम् । यदाह नारदः (२।१४)—'एष एव विधिर्दृष्टो याचितान्वाहितादिषु । शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥' इति । एतेषु याचितान्वाहितादिष्वयं विधिः उपनिधेर्यः प्रतिदानादिविधिः स एव वेदितव्यः ॥ ६७ ॥ भाषा—जो अपनी इच्छा से उपनिधि द्रव्य का भोग करता है उसे उसके लाभ के साथ उपनिधि दिलावे और साथ ही दण्ड भी दे । यही नियम याचित (मगनी), अन्वाहित (मांगने वाले से किसी अन्य व्यक्ति द्वारा स्वामी के पास भिजवाई गई), न्यास (परोक्ष में घर के किसी अन्य व्यक्ति के १. आजीवेत्युप आजीवन्फलं भुंक्ते । २. याक्ष्यमानं । ३. पेक्षायां त्वयेदं ।