भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 304, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 304

२४८ याज्ञवल्क्यस्मृतिः नोक्तः—'सभाराजकुलद्वारदेवायतनचत्वरे । निधेयो निश्चल पूज्यो धूपमाल्या- नूलेपनैः ॥' इति । निधेयो घटः । व्यवस्था च कात्यायनेनोक्ता—'इन्द्रस्थानेऽ- भिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ प्रतिलोमप्रसूतानां दिव्यं देयं चतुष्पथे । $^१$अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः । अस्पृश्याधमदासानां $^२$म्लेच्छांनां पापकारिणाम् । प्रातिलो- म्यप्रसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु $^३$निर्दिशेत् ॥' इति ॥ ९९ ॥ भाषा—सहस्र पण से कम के विवाद में तप्तफाल, विष या तुला का (तथा जल का) दिव्य न करावे । राजद्रोह और महापातक के अभियोग में ये दिव्य सदैव पवित्रता के साथ करावे ॥ ९९ ॥ इति दिव्यमातृका ॥ एवं सर्वदिव्योपयोगिनीं दिव्यमातृकामभिधायेदानीं घटादिदिव्यानां प्रयोगमाह— तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसभीभूतो रेखां$^४$ कृत्वाऽवतारितः ॥ १०० ॥ 'त्वं तुले सत्यधामासि पुरा देवैर्वनिर्मिता । तत्सत्यं वद कल्याणि ! संशयान्मां $^५$विमोचय ॥ १०१ ॥ यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय । शुद्धश्चेद् गमयोर्ध्वं मां तुलामित्यभिमन्त्रयेत् ॥ १०२ ॥ तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयस्तैः प्रतिमानेन मृदादिना समीभूतः समीकृतस्तुलाश्रितोऽधिरूढोऽभियुक्तोऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतलेऽ- वस्थितस्तस्मिन्पाण्डुलेखेनाङ्कयित्वाऽवतारितस्तुलामभिमन्त्रयेत् प्रार्थयेतानेन मन्त्रेण—हे तुले ! त्वं सत्यस्य स्थानमसि, पुरा आदिसृष्टौ देवैर्हिरण्यगर्भप्र- भृतिभिर्वनिर्मितोत्पादिता । तत्तस्मात्सत्यं संदिग्धस्यार्थस्य स्वरूपं वद दर्शय; कल्याणि शोभने ! अस्मात्संशयान्मां विमोचय । हे मात: ! यद्यहं पापकृद- सत्यवाद्यस्मि ततो मां त्वमधो नय । अथ शुद्धः सत्यवाद्यस्मि ततो मामूर्ध्वं १. ततोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः । २. म्लेच्छानामपकारिणां । ३. दापयेत् । ४. रेखाः । ५. विशोधय । ६. पाण्डुलेख्येन ।