याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 303, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २४७ भाषा-स्त्री, बालक, वृद्ध, अन्ध, पंगु, ब्राह्मण एवं रोगी के लिए तुला का दिव्य करे। क्षत्रिय के लिए अग्नि का, वैश्य के लिए जल का, और शूद्र के लिये सात यव के बराबर विष का दिव्य होता है ॥ ९८ ॥ 'महाभियोगेष्वेतानि' ( व्य० ९५ ) इत्युक्तं, तत्राभियोगस्य यदपेक्षं मह- त्त्वं तदिदानीमाह- नासहस्राद्धरेत्फालं न विषं न तुलां तथा । पणसहस्रादूर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलमपि । यथोक्तम्- 'तुलादीनि विषान्तानि गुरुष्वर्थेषु दापयेत्' इति। अत्र कोशस्याग्र- हणं 'कोशमल्पेऽपि दापयेत्' इत्यल्पाभियोगेऽपि तस्य स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्रादूर्ध्वमेव भवन्ति नार्वागित्यर्थः ॥ नन्वर्त्तागप्यग्न्या- दीनि पितामहेन दर्शितानि - 'सहस्रे तु घटं दद्यात्सहस्रार्धे तथाऽयसम् । अर्ध- स्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥' इति सत्यम् । -तत्रेत्थं व्यवस्था यद्द्रव्यापहारे पाहित्यं भवति तद्विषयं पितामहवचनं, इतरद्रव्यविषयं योगी- श्वरवचनमिति । एतच्च वचनद्वयं स्तेयसाहसविषयम् , अपह्नवे तु विशेषो दर्शितः कात्यायनेन-'दत्तस्यापह्नुवो यत्र प्रमाणं तत्र कल्पयेत् । स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥ सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाण- युक्तं तु तदा दिव्यं नियोजयेत् ॥ ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥ षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् । विंशद्विशविनाशे तु कोशपानं विधीयते ॥ पञ्चाधिकस्य वा नाशे ततोऽर्धार्धस्य तण्डुलाः । ततोऽर्धार्धविनाशे हि स्पृशेत्पुत्रादिमस्त- कान् ॥ ततोऽर्धार्धविनाशे तु लौकिक्यश्च क्रियाः स्मृताः । एवं विचारयन्नराजा धर्माथाभ्यां न हीयते ॥ इति 'ज्ञात्वा संख्या सुवर्णानाम्' इत्यत्र 'सुवर्णशब्दः 'षोडश माषाः सुवर्णः' ( आ० ३६३ ) इत्युक्तपरिमाणवचनः । 'नाश'शब्दश्चा- ऽपह्नववचनः । 'नासहस्राद्धरेत्फालम्' इत्यत्र तु तान्त्रिकपणसहस्रं बोद्धव्यम् ॥- ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि, तत्कथं 'नासहस्राद्धरे- त्फालम्' ( व्य० ९९ ) इत्यत्राह- नृपार्थेष्वभिशापे च वहेयुः शुचयः सदा ॥ ९९ ॥ नृपद्रोहेषु महापातकाभियोगे च सदा द्रव्यसंख्यामनपेक्ष्यैवैतानि दिव्यानि वहेयुः कुर्युुरुपवासादिना शुचयः सन्तः। तथा देशविशेषोऽपि नारदे- १. यदपेक्ष्य । २. तत्रैवं व्यवस्था । ३. दद्यादेव । ४. दद्यात् त्रिंश- द्विन्नाशे तु । ५. अभिशापेषु । ६. नृपद्रोहेषु ।