याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 302, कुल 782 में से
संदर्भ में पढ़ें२४६ याज्ञवल्क्यस्मृतिः विशेषानादरेण, वृद्धोऽशीतिकावरः, अन्धो नेत्रविकलः, पङ्गुः पादविकलः, ब्राह्मणो जातिमात्रम्, रोगी व्याधितः, एतेषां शोधनार्थं तुलैवेति नियम्यते । अग्निः फालस्तप्तमाषश्च क्षत्रियस्य । जलमेव वैश्यस्य । 'वा' शब्दोऽवधारणे । विषस्य यवा उक्तपरिमाणाः सप्तैव शूद्रस्य शोधनार्थं भवन्ति । ब्राह्मणस्य तुलाविधानात् 'शूद्रस्य यवाः सप्त विषस्य वा' इति विषविधानादग्निर्जलं वेति क्षत्रियवैश्यविषयमुक्तम् । एतदेव स्पष्टीकृतं पितामहेन—'ब्राह्मणस्य घटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥' इति । यत्तु स्त्र्यादीनां दिव्याभावस्मरणम्, 'स्रवतानां भृशार्तानां व्याधितानां तपस्वि- नाम् । स्त्रीणां च न भवेद्दिव्यं यदि धर्मस्त्वपेक्षितः ॥' इति, तत् 'रुच्या वाऽ- न्यतरः कुर्यात्' (व्य० ९६) इति विकल्पनिवृत्त्यर्थम् । एतदुक्तं भवति—'अ- वष्टम्भाभियोगेषु स्त्र्यादीनामभियोक्तृत्वेऽभियोज्यानामेव दिव्यं, एतेषामभियोज्य- त्वेऽप्यभियोक्तॄणामेव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवे- ति कात्यायनवचनेन नियम्यते । तथा महापातकादिशङ्काभियोगे स्त्र्यादीनां तुलैवेति एतच्च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्त्र्यादीनां सर्व- दिव्यसमवधाने नियामकतयार्थवत् । नच सर्वकालं स्त्रीणां तुलैवेति, 'स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् । घटकोशादिभिस्तासामन्तस्तत्त्वं विचार- येत् ॥' इति विषसलिलव्यतिरिक्तघटकोशाग्न्यादिभिः शुद्धिविधानात् । एवं बालादिष्वपि योजनीयम् । ^२तथा ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनि- यमः; 'सर्वेषामेव वर्णानां कोशशुद्धिर्विधीयते । सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं विना ॥' इति पितामहस्मरणात् । तस्मात्साधारणे काले बहुदिव्यसमव- धाने तुलादिनियमार्थमेवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथाहि—वर्षास्वग्निरेव सर्वेषाम् । हेमन्तशिशिरयोस्तु क्षत्रियादित्रयाणामग्नि- विषयोर्विकल्पः । ब्राह्मणस्य त्वग्निरेव न कदाचिद्विषम्; 'ब्राह्मणस्य विषं विना' इति प्रतिषेधात् । ग्रीष्मशरदोस्तु सलिलमेव । येषां तु व्याधिविशेषेणाग्न्यादि- निषेधः—'कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥' इति तेषामग्न्यादिकालेऽपि साधारणं तुलाद्येव^३ दिव्यं भवति ॥ तथा 'तोयमग्निविषं चैव दातव्यं बलिनां नृणाम्' इति ^४वचनाद् दुर्बला- नामपि सर्वथा विधिप्रतिषेधोक्तकालानतिक्रमेण जातिवयोर्वस्थाश्रितानि दिव्यानि देयानि ॥ ९८ ॥ १. सार्वकालं । २. यथा । ३. तुला दिव्यं । ४. दुर्बलानामिति सर्वदा । ५. प्रतिषेधाहते उक्तकालानति । ६. वस्थानाश्रितानि ।