भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 301, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 301

व्यवहाराध्यायः २४५

पोषिताय स्युरेकरात्रोषिताय वा । नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥' इत्युपवासविकल्पः पितामहेनोक्तो बलवद्दुर्वलवन्महाकार्य्याल्पकार्य्यविषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवासनियमश्च कारयितुः प्राड्विवाकस्यापि—'दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥' इति पितामहवचनात् ॥ अत्र यद्यपि सूर्योदय इत्यविशेषेणोक्तं, तथापि शिष्ट- समाचाराद्भानुवासरे दिव्यानि देयानि । तत्रापि—'पूर्वाह्नेऽग्निपरीक्षा स्यात्पू- र्वाह्ने च घटो भवेत् । मध्याह्ने तु जलं देयं धर्मतत्त्वमभीप्सताम् ॥ दिवसस्य तु पूर्वाह्ने १कोशशुद्धिर्विधीयते । रात्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥' इति पितामहोक्तो विशेषो द्रष्टव्यः ॥ अनुक्त२कालविशेषाणां तण्डुलतप्तमाष- प्रभृतीनां पूर्वाह्न एव प्रदानम्; 'पूर्वाह्ने सर्वदिव्यानां प्रदानं परिकीर्ति- तम्' इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्ते ३पूर्वो भागः पूर्वाह्नः, मध्यमो मध्याह्नः, ४उत्तरोऽपराह्नः । तथापरोऽपि काल- विशेषो विधिप्रतिषेधमुखेन दर्शितः । विधिमुखस्तावत्—'अग्नेः शिशि- रहेमन्तौ वर्षाश्चैव प्रकीर्तिताः । शरद्ग्रीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥ चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च । एते साधारणा मासा दिव्यानामविरो- धिनः ॥ कोशस्तु सर्वदा देयस्तुला स्यात्सार्वकालिकी ॥' इति । 'कोश' ग्रहणं सर्वशपथानामुपलक्षणम् । तण्डुलानां पुनर्विशेषानभिधानात्सार्वकालिकत्वम् । प्रतिषेधमुखोऽपि—'५न शीते तोयशुद्धिः स्यान्नोष्णकालेऽग्निशोधनम् । न प्रावृषि विषं दद्यात्प्रवाते न तुलां तथा ॥ नापराह्ने न सन्ध्यायां न मध्याह्ने कदाचन ॥' इति । 'न शीते तोयशुद्धिः स्या'दित्यत्र 'शीत' शब्देन हेमन्त-शिशिर-वर्षाणां ग्रहणम् । 'नोष्णकालेऽग्निशोधन'मित्यत्र 'उष्णकाल' शब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर्निषेध आदरार्थः; प्रयोजनं तु वक्ष्यते ॥ ९७ ॥

भाषा—(शपथ लेने वाले को) पहले दिन उपवास कराके सूर्योदय के समय वस्त्र सहित स्नान कराके बुलावे और राजा तथा ब्राह्मणों के समक्ष सभी दिव्य करावे ॥ ९७ ॥

अधिकारिव्यवस्थामाह— तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् । अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ ९८ ॥ स्त्री स्त्रीमात्रं जातिवयोवस्थाविशेषानादरेण, बाल आ षोडशाद्वर्षाज्जाति-


१. कोशसिद्धिः । २. अनुक्तवेला । ३. प्रथमो भागः । ४. उत्तमो । ५. तोयसिद्धिः स्यात् ।