याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 300, कुल 782 में से
संदर्भ में पढ़ें२४४ याज्ञवल्क्यस्मृतिः सर्वेषु$^१$ कोशपानमथापि वा ॥ इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणे ॥' इति नारदस्मरणात्$^२$ ॥ यद्यपि मानुषप्रमाणानिर्णयस्य निर्णायकं यत्तद्दिव्यमिति लोकप्रसिद्ध्या शपथानामपि दिव्यत्वं तथापि कालान्तरनिर्णयनिमित्तत्वेन सम- नन्तरैर्निर्णयनिमित्तेभ्यो घटादिभ्यो दिव्यभ्यो भेदव्यपदेशो ब्राह्मणपरिव्राजक- वत् । कोशस्य तु शपथत्वेऽपि घटादिषु पाठो महाभियोगविषयत्वेनावष्टम्भाभियो- गविषयत्वेन च घटादिसाम्यान्नतु समनन्तरनिर्णयनिमित्तत्वेन । तण्डुलानां तप्त- माषस्य च समनन्तरनिर्णयनिमित्तत्वेऽप्यल्पविषयत्वेन शङ्काविषयत्वेन च घटादि- वैलक्षण्यात्तेष्वपाठ इति संतोष्टव्यम् । एतानि च दिव्यानि शपथाश्च यथासंभवमृणा- दिषु विवाद्वेषु प्रयोक्तव्यानि । यत्तु—पितामहवचनम् 'स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्' इति, तदपि लिखितसामन्तादिसद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम् । ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवकाश एव । सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाध्युपन्यासेऽर्थिना कृतेऽपि प्रत्यर्थी यदि दण्डाभ्युपगमावष्टम्भेन दिव्यमवलम्बते तदा दिव्यमपि भवति । $^६$साक्षिणामाशयदोषसंभावादिव्यस्य च निर्दोषत्वेन वस्तुतत्त्वविष- यत्वात्तल्लक्षणत्वाच्च धर्मस्य । यथाह नारदः—'तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥' इति । स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यमिति विकल्पनिराकरणार्थं 'स्थावरेषु विवादेषु' इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम्; लिखितसा- मन्ताद्यभावे स्थावरविवादेष्वनिर्णयप्रसङ्गात् ॥ ९६ ॥ भाषा—अथवा इच्छानुसार इन्हें अभियुक्त और अभियोक्ता दोनों में किसी के लिये किया जाता है; अथवा वे दोनों ही शारीरिक या आर्थिक दण्ड स्वीकार करें । राजद्रोह और ब्रह्महत्यादि पातक में बिना जय-पराजय के विचार के इनका प्रयोग किया जाता है ॥ ९६ ॥ दिव्ये साधारणविधिः— $^७$सचैलं स्नातमाहूय सूर्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ ९७ ॥ किंच, पूर्वेद्युरुपोषितमुदिते सूर्ये सचैलं स्नातं दिव्यग्राहिणमाहूय नृपस्य सभ्यानां च ब्राह्मणानां संनिधौ सर्वाणि दिव्यानि कारयेत्प्राड्विवाकः—'त्रिरात्रो- १. साध्येसु । सर्वेषु कोशपान । २. नारदादि । ३. नन्तरनिमित्तनिर्ण- येभ्यो । ४. न्तरसद्भावे । ५. उक्तलक्षणे । ६. माशये दोष । ७. सचैलस्नान- माहूय ।