याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 299, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २४३ महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चाविशेषेण प्राप्तावपवादमाह— —शीर्षकस्थेऽभियोक्तरि ॥ ९५ ॥ एतानि तुलादीन्यभियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । शीर्षकं शिरो व्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस्तेन च दण्डो लक्ष्यते, तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्डभागित्यर्थः ॥ ९५ ॥ भाषा—तुला, अग्नि, जल, विष और कोश ये शुद्धि (संदेह-निवृत्ति) के लिये दिव्य कहे गये हैं। इनका प्रयोग महाभियोगों में होता है और वह भी प्रमुख अभियुक्त के लिए अभियोक्ता के शीर्षकस्थ होने पर किया जाता है (शीर्षकस्थ = जय-पराजय का भागी।) ॥ ९५ ॥ 'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' (व्य० ७) इति भावप्रति- ज्ञावादिनेव 'क्रियेति व्यवस्था दर्शिता तदपवादार्थमाह— रुच्या वाऽन्यतरः कुर्यादितरो वर्तयेच्छिरः । रुच्याभियोक्त्रभियुक्तयोः परस्परसं प्रतिपत्त्याऽन्यतरोऽभियुक्तोऽभियोक्ता वा दिव्यं कुर्यात् । इतरोऽभियुक्तोऽभियोक्ता वा शिरः शारीरमर्थदण्डं वा वर्तयेद- ङ्गीकुर्यात् । अयमभिसन्धिः—न मानुषप्रमाणवद्दिव्यं प्रमाणं भावैकगोचरं अपि तु भावाभावविशेषेण गोचरयति । अतश्च मिथोत्तरे प्रत्यवस्कन्दने प्राङ्- न्याये वाऽर्थिप्रत्यर्थिनोरन्यतरस्येच्छया दिव्यं भवतीति ॥— अल्पअभियोगे महाभियोगे शङ्कासावष्टम्भयोश्च्यविशेषेण कोशो भवतीत्युक्तं, तुलादीनि विषयान्तरानि तु महाभियोगेष्वेव सावष्टम्भेष्वेवेति च नियमो दर्शितः । तत्रावष्टम्भाभियोगेष्वेवेत्यस्यापवादमाह— विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके ॥ ९६ ॥ राजद्रोहाभिशङ्कायां ब्रह्महत्यादिपातकाभिशङ्कायां च शिरःस्थायिना विना- पि तुलादीनि कुर्यात् महाचौर्याभिशङ्कायां च । यथाह—'राजभिः शङ्कितानां च निर्दिष्टांनां च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥' इति । तण्डुलाः पुनरल्पचौर्यशङ्कायामेव ।—'चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः' इति पितामहवचनात् । तप्तमाषस्तु महाचौर्याभिशङ्कायामेव; 'चौर्य- शङ्काभियुक्तानां तप्तमाषो विधीयते' इति स्मरणात् । अन्ये पुनः शपथा अल्पा- र्थविषयाः, 'सत्यं वाहनशस्त्राणि गोबीजकनकानि च । देवतापितृपादांश्च दत्तानि सुकृतानि च ॥ स्पृशेद्विच्छिरांसि पुत्राणां दाराणां सुहृदां तथा । अभियोगेषु १. क्रियाव्यवस्था । २. भवतीति युक्तं । ३. राजद्रोहे । १६ या०