भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 307, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 307

व्यवहाराध्यायः । २५१

रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥' इति । एतच्च धर्मावा- हनादि शिरसि पत्रारोपणान्तमनुष्ठानकाण्डं सर्वदिव्यसाधारणम् । यथोक्तम्— 'इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् । आवाहनं च देवानां तथैव परिकल्पयेत् ॥' इति । अनन्तरं प्राड्विवाको घटमामन्त्रयेत्; 'घटमामन्त्रयेच्चैव विधिनानेन शास्त्रवित्' इति स्मरणात् । मन्त्राश्च दर्शिताः—'त्वं घट ! ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् । घकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् ॥ घृतो आवयसे यस्माद्धटस्तेनाभिधीयते । त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि च ॥ त्वमेव² देव ! जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥' इति । शोध्यस्तु 'त्वं तुले' इत्याविना पूर्वोक्तेन मन्त्रेण तुलामामन्त्रयेत् । अनन्तरं प्राडिवाकः शिरोगतपत्रकं शोध्य यथास्थानं निवेश्य³ च घटमारोपयति; 'पुनरारोपयेत्त- स्मिञ्छिरोवस्थितपत्रकम्' इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत्त- थैवावस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्त्राभिज्ञः कुर्यात् ; 'ज्योतिर्विद् ब्राह्मणः श्रेष्ठः कुर्यात्कालपरीक्षणम् । विनाड्यः पञ्च विज्ञेयाः परीक्षाकाल- कोविदैः ॥' इति स्मरणात् । दशगुर्वक्षरोच्चारकालः प्राणः । षट्प्राणा विनाडी । उक्तं च—'दशगुर्वर्णः प्राणः षट् प्राणाः स्युर्विनाडिका तासाम् । षष्ट्या घटी घटीनां षष्ट्याहः⁴ खाम्भिनिर्विनैर्मासः ॥' इति । तस्मिंश्च काले शुद्धयशुद्धिपरीक्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्धयशुद्धी कथयन्ति । यथोक्तं पितामहेन—'साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः । ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥ शंसन्ति साक्षिणः श्रेष्ठैः⁶ शुद्धयशुद्धी⁵ नृपे तदा ॥' इति । शुद्धयशुद्धिनिर्णयकारणं चोक्तम् ( नारदः १।२८३ )—'तुलितो यदि वर्धेत स शुद्धः स्यान्न संशयः । समो वा हीयमानो वा न सँ⁷ शुद्धो भवेन्नरः ॥' इति । यत्तु पितामहवचनम्—'अल्पदोषः समो ज्ञेयो बहुदोषस्तु हीयते' इति, तन्न यद्यप्यभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न दिव्यैनावधारयितुं शक्यते तथापि सकृदमतिपूर्वत्वेनाल्पत्वमसकृन्मतिपूर्वत्वेन च महत्त्वमिति दण्डप्रायश्चित्ताहपत्वमहत्त्वमवधार्यते । तदा चानुपलक्ष्यमाण- दृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्यशुद्धिरेव—( नारदः १।२८४ ) 'कक्षाच्छेदे तुलाभङ्गे घटकर्कटयोस्तथा । रज्जुच्छेदेऽक्षभङ्गे च तथैवा- शुद्धिमादिशेत् ॥' इति स्मरणात् । कक्षं शिक्यतलम् । कर्कटौ तुलान्तयोः


१. सर्वभूतानां । २. त्वमेव सर्वं । ३. यथानिवेशं च । ४. षष्ट्याहोरात्र उक्तश्च । ५. शोध्यशुद्धि । ६. सर्वै । ७. वेशुद्धो । ८. छेदे च भङ्गे च ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 307, कुल 782 में से · BharatKosha