याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 308, कुल 782 में से
संदर्भ में पढ़ें२५२ याज्ञवल्क्यस्मृतिः
शिक्याधारावीषद्धकावायसकीलकौ कर्कटशृङ्गसंनिभौ । अधः पादस्तम्भयो- रुपारि निविष्टस्तुलाधारपट्टः । यदा तु दृश्यमानकारणक एषां भङ्गस्तदा पुनरा- रोपयेत् ; 'शिक्यादिच्छेद्भङ्गेषु पुनरारोपयेन्नरम्' इति स्मरणात् । ततश्च— 'ऋत्विक्पुरोहिताचार्यान्दक्षिणाभिश्च तोषयेत् । एवं कारयिता राजा भुक्त्वा भोगान्मनोरमान् ॥ महतीं कीर्तिमाप्नोति ब्रह्मभूयाय कल्पते ॥' यदा तूक्तलक्षणं घटं तथैव स्थापयितुमिच्छति तदा वायसाद्युपघातनिरासार्थं कपाटादिसहितां शालां कुर्यात् ; 'विशालामुन्नतां२ शुभ्रां घटशालां तु कारयेत् । यत्रस्था नोप- हन्येत श्वमिश्चण्डालवायसैः ॥ तत्रैव लोकपालादीन्सर्वान्दिक्षु निवेशयेत् । त्रिसन्ध्यं पूजयेदेतान्गन्धमाल्यानुलेपनैः ॥ कपाटबीजसंयुक्तां परिचारकर- क्षिताम् । मृत्पानीयाग्निसंयुक्तामशून्यां कारयेन्नृपः ॥' इति स्मरणात् । बीजानि यवव्रीह्यादीनि ॥ ॥ १००-१०२ ॥
भाषा—तौलने में जो निपुण ( सुवर्णकार आदि ) हों, उनसे अभियुक्त को तुला पर चढ़ा कर तौलावे और उसके बराबर जो मिट्टी आदि वस्तु हो उसके बराबर रेखा बनाकर उसे तुला से उतारे । इसके बाद दिव्य करने वाला तुला की इस प्रकार प्रार्थना करे—हे तुला ! तुम सत्य के स्थान हो । आदि- काल में देवताओं ने तुम्हारी सृष्टि की है। हे कल्याणी ! तुम सत्य को प्रकट करो और मुझे इस संशय से विमुक्त करो । हे माता, यदि मैं पापी हूँ तो मुझे नीचे ले जाओ और यदि मैं निर्दोष हूँ तो मुझे ऊपर उठाओ ॥१००-१०२॥
इति घटविधिः ॥
इदानीं ३क्रमप्राप्तमग्निदिव्यमाह— करौ विमृदितै४र्व्रीहेर्लक्षयित्वा ततो न्यसेत् । सप्त५श्वत्थस्य पत्राणि तावत्६सूत्रेण वेष्टयेत् ॥ १०३ ॥
दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधानोक्तधर्मावाहनादिशिरःपत्रा- रोपणान्ते च विध्यन्ते सत्ययमग्निविधौ विशेषः । विमृदितव्रीहिर्विमृदिता विघर्षिता व्रीहयः कराभ्यां येनासौ विमृदितव्रीहिस्तस्य करौ लक्षयित्वा तिलकालकव्रणकिणादिस्थानेष्वलक्तरसादिनाऽङ्कयित्वा । यथाह नारदः (१।३०१)—'हस्तक्षतेषु सर्वेषु कुर्याद्गुंसपदानि तु' इति । अनन्तरं सप्ताश्वत्थस्य प७र्णानि हस्तयोरञ्जलीकृतयोर्न्यसेत्—'पत्रैरञ्जलिमापूर्य आश्वत्थैः सप्तभिः समैः'
१. भङ्गे तु । २. मुच्छ्रितां । ३. अग्निविधिं । अग्निविधानं । ४. तन्ब्रीही लक्ष । ५. सप्त चाश्वत्थपत्राणि । ६. तावत्सूत्राणि वेष्टयेत् । ७. पत्राणि ।