याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 309, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २५३
इति स्मरणात् । तानि च ^१हस्तसहितानि सूत्रेण तावद्वेष्टयेत् । यावन्त्यश्वत्थप- र्णानि सप्तकृत्वो वेष्टयेदित्यर्थः । सूत्राणि च सप्त शुक्लानि भवन्ति—वेष्टयीत सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिः' इति नारदवचनात् । तथा सप्त शमीपत्राणि सप्तैव दूर्वापत्राणि चाक्षतांश्च दध्यक्तानक्षतांश्चाश्वत्थपत्राणामुपरि विन्यसेत् ; 'सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् । दूर्वायाः सप्त पत्राणि दध्यक्तांश्चाक्ष- तान्न्यसेत् ॥' इति स्मरणात् । तथा कुसुमानि च विन्यसेत् ; 'सप्त पिप्पलप- त्राणि अक्षतान्सुमनो दधि । हस्तयोर्निचिपेत्तत्र सूत्रेणावेष्टनं तथा ॥' इति पिता- महवचनात् । सुमनसः पुष्पाणि । यदपि स्मरणम्—'अयस्तप्तं तु पाणिभ्याम- र्कपर्णैस्तु सप्तभिः । अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पदे ॥' इति, तदप्यश्व- त्थपत्राभावेऽर्कपत्रविषयं वेदितव्यम्; अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्य- त्वावगमात्—'पिप्पलाज्जायते वह्निः पिप्पलो वृक्षराट् स्मृतः । अतस्तस्य तु पत्राणि हस्तयोर्विन्यसेद् बुधः ॥' इति १०३ ॥ भाषा—अग्नि का दिव्य करने वाले के दोनों हाथों में धान मलवा कर हथेलियों पर बने हुए व्रणादि के स्थानों पर अलक्तक रस से चिह्न बनवाकर उसके ऊपर पीपल के सात पत्ते रखे और उन्हें ( सात श्वेत ) धागों से लपेट देवे ॥ १०३ ॥ कर्तुरग्न्यभिमन्त्रणमाह— त्वमग्ने ! सर्वभूतानामन्तरश्चरसि पावक ! । साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यं कवे ! मम ॥ १०४ ॥ हे अग्ने ! त्वं सर्वभूतानां जरायुजाण्डजस्वेदजोद्भिज्ञानामन्तः शरी- राभ्यन्तरे चरसि उपयुक्तान्नपानादीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो ! कवे क्रान्तदर्शिन् । साक्षिवत् पुण्यपापेभ्यः सत्यं ब्रूहि । 'पुण्यपापेभ्यः' इति ल्यब्लोपे पञ्चमी । पुण्यपापान्ववेक्ष्य सत्यं ब्रूहि दर्शयेत्यर्थः । अयःपिण्डे त्रिभि- स्तापैः संतप्ते संदंशेन पुरत आनीते कर्ता पश्चिममण्डले प्राङ्मुखस्तिष्ठन् अनेन मन्त्रेणाग्निं अभिमन्त्रयेत् । यथाह नारदः (१।२८८-८९)—'अग्निवर्णमयःपिण्डं सस्फुलिङ्गं सुरक्षितम् । तापे तृतीये संताप्य ब्रूयात्सत्यपुरस्कृतम् ॥' इति । अस्यार्थः-लोहशुद्ध्यर्थं सुतप्तं लोहपिण्डमुदके निक्षिप्य पुनः संताप्योदके निक्षि- प्य तृतीये तापे संताप्य संदंशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं सत्यशब्द- युक्तं 'त्वमग्ने सर्वभूतानाम्'इत्यादिमन्त्रं कर्ता ब्रूयादिति ॥ प्राड्विवाकस्तु मण्ड- लभूभागाद्दक्षिणप्रदेशे लौकिकमग्निमुपसमाधाय 'अग्नये पावकाय स्वाहा' इत्या-
१. स्वहस्तसहितानि । २. अन्तर्हितं रहः शुद्धमदग्धः । अन्तर्हितैर्हरन् ।