भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 312, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 312

२५६ याज्ञवल्क्यस्मृतिः एक मण्डल सोलह अङ्गुल का होता है और दो मण्डलों के बीच इतना ही (सोलह अङ्गुल) अन्तर रहता है ॥ १०६ ॥ सप्त मण्डलानि गत्वा किं कर्तव्यमित्यत आह— मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । अष्टमे मण्डले स्थित्वा नवमे मण्डलेऽग्नितप्तमयःपिण्डं त्यक्त्वा व्रीहीन् कराभ्यां १ मर्दयित्वाऽदग्धहस्तश्चेच्छुद्धिमाप्नुयात् । दग्धहस्तश्चेदशुद्ध इत्यर्थसिद्धम् । यस्तु संत्रासात्प्रस्खलन्हस्ताभ्यामन्यत्र दह्यते तथाप्यशुद्धो न भवति । तथाह कात्यायनः—'प्रस्खलन्नभिशस्तश्चेत्स्थानादन्यत्र दह्यते । अदग्धं तं विदुर्दैवात्तस्य भूयोऽपि दापयेत् ॥' इति ॥— अन्तरा पतिते पिण्डे संदेहे वा पुनर्हरेत् ॥ १०७ ॥ यदा गच्छतोऽन्तराष्टममण्डलादर्वागेव पिण्डः पतति दग्धादग्धत्वे वा संश- यस्तदा पुनर्हरेत् इत्यर्थप्राप्तमुक्तम् । तत्र चायमनुष्ठानक्रमः—पूर्वेद्युर्भूशुद्धिं २ विधायोत्तरेद्युर्मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश्च मन्त्रैस्तत्र तत्र संपूज्याग्निसुपसमाधाय शान्तिहोमं निर्वर्त्याग्नावयःपिण्डं निधाय धर्मावाह- नादिसर्वदेवतापूजां हवनान्तां निर्वर्त्य उपोषितस्य स्नातस्यार्द्रवाससः पश्चिमे ३ मण्डले तिष्ठतो व्रीहिमर्द्दनादिकरसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कर्तुः शिरसि बद्ध्वा प्राड्विवाकस्तृतीये तापेऽग्निमभिमन्त्र्य तप्तमयःपिण्डं संदंशेन ४ गृहीत्वा कर्त्रभिमन्त्रितं तस्याञ्जलौ निदध्यात् । सोऽपि मण्डलानि सप्त गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति ॥ १०७ ॥ भाषा—(उसके बाद) अग्नि को गिराकर फिर व्रीहि हाथों से मले । यदि जला नहीं रहता है तो शुद्ध होता है । यदि जलने के सन्देह से लौह- पिण्ड बीच ही में गिर जाय तो उसे पुनः उठाकर ले चले ॥ १०७ ॥ इत्यग्निविधिः ॥ संप्रत्युदकविधिमाह— सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशौप्य कम् । नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ १०८ ॥ हे वरुण ! 'सत्येन मामभिरक्ष त्वम्' इत्यनेन मन्त्रेण कमुदकमभिशाप्या- भिमन्त्र्य नाभिदघ्नोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योरू गृहीत्वा १. कराभ्यां व्रीहीन् । २. भूतशुद्धिं । ३. पश्चिममण्डले । ४. संदं- शेन । ५. अभिशाप्य । अभिशाय्य ।