भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 313, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 313

शोध्यो जलं प्रविशेत् जले निमज्जेत् । एतच्च वरुणपूजायां सत्याम् ; 'गन्ध- माल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥' इति नारदस्मरणात् । तथा साधारणधर्मेषु धर्मावाहनादिसकल१देवतापूजाहो- मसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा—'तोय ! त्वं प्राणिनां प्राणः सृष्टेराद्यं तु निर्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥' इति प्राड्विवाकेनोदकाभिमन्त्रणे कृते शोध्यः 'सत्येन माऽभिरक्ष त्वं वरुण !' इति जलं प्रार्थयेत् । उदकस्थानानि च नारदेनोक्तानि ( १३०५ )—'नदीषु तनुवेगासु सागरेषु वहेषु च । ह्रदेषु देव- खातेषु तडागेषु सरःसु च' इति । तथा पितामहेनापि—'स्थिरतोये निर्मज्जेत न ग्राहिणि न चाल्पके । तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥ देवखातेषु यत्तोयं तस्मिन्कुर्याद्विशोधनम् । आहार्यं वर्जयेन्नित्यं शीघ्रगासु नदीषु च ॥ आविशेत्सलिले नित्यमूर्निमपङ्कविवर्जिते ॥' इति । आहार्यं तडागादिभ्य आहृतं ताम्रकटाहादिस्थितं जलम् । नाभिप्रमाणोदकस्थश्च यज्ञियवृक्षोद्भवां धर्मस्थूणाम- वष्टभ्य प्राङ्मुखस्तिष्ठेत् ; 'उदके प्राङ्मुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य च ।' इति स्मरणात् ॥ १०८ ॥ भाषा—'हे वरुण ! तुम सत्य द्वारा मेरी रक्षा करो' इस प्रकार जल का आवाहन कर के नाभि तक जल में खड़े हुए पुरुष की जाँघों को पकड़कर जल में डुबकी लगावे ॥ १०८ ॥ ततः किं कर्तव्यमित्यत आह— समकालमिषुं मुक्तमानीय़ान्यो जवी नरः । गते तस्मिन्निमग्नाङ्गं पश्येच्चेच्छुद्धिमाप्नुयात् ॥ १०९ ॥ निमज्जनसमकालं गते तस्मिन् जविन्येकस्मिन्पुरुषे अन्यो जवी शरपात- स्थानस्थितः पूर्वमुक्तमिषुमानीय जले निमग्नाङ्गं यदि पश्यति तदा स शुद्धो भवति । एतदुक्तं भवति—त्रिषु शरेषु मुक्तेष्वेको वेगवान्मध्यमशरपातस्थानं गत्वा तमादाय तत्रैव तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरण- मूले तिष्ठति । एवं स्थितयोस्तृतीयास्यां करतालिकायां शोध्यो निमज्जति । तत्समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यशरपातस्थानं गच्छति । शर- ग्राही च तस्मिन्प्राप्ते द्रुततरं तोरणमूलं प्राप्य़ान्तर्जलगंतं यदि न पश्यति १०तदा १. देवपूजा । २. इत्युक्तं प्रार्थयते । ३. निमज्जेत्तु । ४. जलूका । ५. मानयेद्यो । ६. गतेऽन्यस्मिन् । ७. तदा शुद्धो । ८. स्थितयो- स्तयोस्तृतीय । ९. मध्यमशर । १०. तदा शुद्धिं व्रजतीति ।