भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 315, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 315

व्यवहाराध्यायः २५६ कर्णाद्यभिप्रायेण । 'शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका । अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत् ॥' इति विशेषाभिधानात् । अयमत्र प्रयोगक्रमः— 'उक्तलक्षणजलाशयसंनिधावुक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं निधाय तोरणसंनिधौ १ सशरं धनुः संपूज्य जलाशये वरुणमावाह्य पूजयित्वा तत्तीरे धर्मादींश्च देवान्हवनान्तेमिष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रमाबध्य प्राड्विवाको जलमभिमन्त्रयते-'तोय ! त्वं प्राणिनां प्राणः' इत्यादिना मन्त्रेण । अथ शोध्यः—'सत्येन' इत्यादिना मन्त्रेण जलमभिमन्त्र्य गृहीतस्थूणस्य नाभिमात्रोदकावस्थितस्य बलीयसः पुरुषस्य समीपमुपसर्पति । अथ शरेषु त्रिषु मुक्तेषु मध्यमशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्वेकस्मिन्पुरुषे स्थिते अन्यस्मिंश्च तोरणमूले स्थिते प्राड्विवाकेन तालत्रये दत्ते युगपद्गमनमज्जनमथ शरानयनमिति ॥ १०९ ॥ भाषा—उसके डुबकी लगाने के समय ही छोड़े गये बाण को लानेके लिए एक तेज दौड़ने वाला व्यक्ति जावे; लौटने पर यदि वह दिव्य करने वाले व्यक्ति को जल डूबा हुआ ही पावे तो वह शुद्ध होता है ॥ १०९ ॥ इत्युदकविधिः ॥ इदानीं विषविधानमाह— त्वं विष ! ब्रह्मणः पुत्रः सत्ये धर्मे २ व्यवस्थितः । त्रायस्वास्मादभीशापात्सत्येन भव मेऽमृतम् ३ ॥ ११० ॥ एवमुक्त्वा विषं शार्ङ्गं भक्षयेद्धिमशैलजम् । यस्य वेगैर्विना ४ जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥ १११ ॥ 'त्वं विष'इत्यादिमन्त्रेण विषमभिमन्त्र्य कर्ता विषं हिमशैलजं शृङ्गभवं भक्षयेत् । तच्च भक्षितं सत् यस्य विषं वेगैर्विना जीर्यति स शुद्धो भवति । विषवेगो नाम धातोर्धात्वन्तरप्राप्तिः । 'धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतः' इति वचनात् । धातवश्च त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राणीति सप्त । एवं च सप्तैव विषवेगा भवन्ति । तेषां च लक्षणानि पृथगेव विषतन्त्रे कथितानि—'वेगो रोमाञ्चमाद्यो रचयति विषजः स्वेदवक्त्रोपशोषौ तस्योर्ध्वंस्तत्परौ द्वौ वपुषि जनयतो वर्णभे- दप्रवेपौ । यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां षष्ठो निःश्वासमो हौ वितरति च मृतिं सप्तमो भक्षकस्य ॥' इति । अत्र च महादेवस्य १. समीपे सशरं । २. सत्ये धर्मे, ; सत्यधर्मेव्यवस्थितः । ३. व्यव- स्थितम् । ४. जीर्णं तस्य शुद्धिं विनिर्दिशेत् । ५. नयनविवशतां । १७ या०