याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 316, कुल 782 में से
संदर्भ में पढ़ें२६० याज्ञवल्क्यस्मृतिः
पूजा कर्तव्या । यथाह नारदः- 'दद्याद्विषं सोपवासो देवब्राह्मणसंनिधौ । धूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम् ॥' इति प्राड्विवाकः कृतोपवासो महादेवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रति- ज्ञापत्रं शोध्यस्य शिरसि निधाय विषमभिमन्त्रयते—'त्वं विष ! ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम् । पापानां दर्शयात्मानं शुद्धानाममृतं भव ॥ मृत्यूमूर्ते विष ! त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायस्वैनं नरं पापात्सत्येनास्यामृतं भव ॥' इति । एवमभिमन्त्र्य दक्षिणाभिमुखावस्थिताय दद्यात् ; 'द्विजानां संनिधावेक दक्षिणाभिमुखे स्थिते । उदङ्मुखः प्राङ्मुखो वा विषं दद्यात्समाहितः ॥' इति नारद्वचनात् । विषं च वत्सनाभादि ग्राह्यम् ; 'शृङ्गिणो वत्सनाभस्य हिमजस्य विषस्य वा ॥' इति पितामहवचनात् । वर्ज्यानि च तेनैवोक्तानि—'चारितानि च जीर्णानि कृत्रिमाणि तथैव च । भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥' इति । तथा नारदेनापि ( १।३२१ )—'अदृष्टं च चारितं चैव धूपितं मिश्रितं तथा । कालकूटमलाबुं च विषं यत्नेन वर्जयेत् ॥' इति । कालश्च नारदेनोक्तः ( १।३१९ )—'तोलयित्वेप्सितं काले देयं तद्धि हिमागमे । नापराह्ने न मध्याह्ने न संध्यायां तु धर्मवित् ॥' इति । कालान्तरे तूक्तप्रमाणादल्पं देयम् ; 'वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्चयवा स्मृता । हेमन्ते सा सप्तयवा शरद्यल्पा ततोऽपि हि ॥' इति स्मरणात् । अल्पेति षड्यवेत्यर्थः । 'हेमन्त'ग्रहणेन शिशिरस्यापि ग्रहणम् । 'हेमन्तशिशिरयोः समासेन' इति श्रुतेः । वसन्तस्य च सर्वदिव्यसाधारणत्वात्तत्रापि सप्त यवा विषं च घृतप्लुतं देयं; नारदवचनात् । 'विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः । तमष्टभागहीनं तु शोध्ये दद्याद्घृत- प्लुतम् ॥' (नारदः १।३२३) इति । पलं चात्र चतुःसुवर्णकम् । तस्य षष्ठो भागो दश माषाः दश यवाश्च भवन्ति । 'त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषः' इत्येको माषः पञ्चदश यवा भवन्ति । एवं दशानां माषाणां यवाः सार्धशतं भवन्ति । पूर्वे च दश यवा इति षष्ट्यधिकं शतं यवाः पलस्य षष्ठो भागस्तस्माद्विंशतितमो भागोऽष्टौ यवास्तस्याष्टभाग एकयवः, तेन हीनं विंशति- तमं भागं सप्तयवं घृतप्लुतं दद्यात् । घृतं च विषात्त्रिंशद्गुणं ग्राह्यम् ; 'पूर्वाह्णे शीतले देशे विषं देयं तु देहिनाम् । घृते नियोजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणा- न्वितम् ॥' इति कात्यायनवचनात् । त्रिंशद्गुणेन घृतेनान्वितं विषम् । शोध्यश्च कुहकादिभ्यो रक्षणीयः; 'त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । कुहकादि- भयाद्राजा रक्षयेद्दिव्यकारिणम् ॥ ओषधीर्मन्त्रयोगांश्च मणीनथ विषापहान् । कर्तुः शरीरसंस्थांस्तु गूढोऽपञ्चानुपरीक्षयेत् ॥' इति पितामहस्मरणात् । तथा
१. पूजा कार्या । २. तथैवोक्तानि । ३. यत्नेन परि ।