याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 317, कुल 782 में से
संदर्भ में पढ़ेंविषमपि र॑क्षणीयम्—‘शाङ्गं हैमवतं शस्तं गन्धवर्णरसान्वितम् । अकृत्रिमम- संमूढम मन्त्रोपहतं च यत् ॥’ (१।३२२) इति नारदस्मरणात् । तथा विषे पीते यावत्करतालिकाशतपञ्चकं तावत्प्रतीक्षणीयोऽनन्तरं चिकित्सनीयः । यथाह नारदः— ‘पञ्चतालशतं कालं निर्विकारो यदा भवेत् । तदा भवति संशुद्धस्ततः कुर्याच्चिकित्सितम् ॥’ इति । पितामहेन तु दिनान्तोऽवधिरुक्तोऽल्पमात्रा- विषयः—‘भक्षिते तु यदा स्वस्थो मूर्च्छाच्छर्दिविवर्जितः । निर्विकारो दिनस्यान्ते शुद्धं तमपि निर्दिशेत् ॥’ इति । अत्र च प्राड्विवाकः सोपवासो महादेवं संपूज्य तत्पुरतो विषं स्थापयित्वा धर्मादीनिष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रं निधाय विषमभिमन्त्र्य दक्षिणाभि³मुखस्थिताय विषं प्रयच्छति । स च शोध्यो विषम- भिमन्त्र्य भक्षयतीति क्रमः ॥ ११०–१११ ॥
भाषा—‘हे विष ! तुम ब्रह्मा के पुत्र हो और सत्यधर्म में प्रतिष्ठित हो । इस अभिशाप से सत्य के द्वारा मेरी रक्षा करो और मेरे लिये अमृत बनो' इस प्रकार विष से प्रार्थना करके दिव्य करने वाला व्यक्ति हिमालय से उत्पन्न एवं शृङ्ग से निकले हुए विष का भक्षण करे । यदि विष बिना प्रभाव दिखाये ही पच जाय तो वह उसकी शुद्धि प्रकट करता है ॥ ११०–१११ ॥
इति विषविधानम् ॥
अथ कोशविधिमाह— देवानुग्रान्समभ्यर्च्य तत्स्नानोदकमाहरेत् । संश्राव्य४ पाययेत्तस्माज्जलं तु प्रसृतित्रयम् ॥ ११२ ॥ उग्रान्देवान्दुर्गादित्यादीन् समभ्यर्च्य गन्धपुष्पादिभिः पूजयित्वा संस्नाप्य तत्स्नानोदकमाहरेत् । आहृत्य च ‘तोय ! त्वं प्राणिनां प्राणः’ इत्यादिना तत्तोयं प्राड्विवाकः संश्राव्य शोध्येन च तत्तोयं पात्रान्तरे कृत्वा ‘सत्येन माभि- रक्ष त्वं वरुण !’ इत्यनेनाभिमन्त्रितं पाययेत्प्रसृतित्रयम् । एतच्च साधारण- धर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु । अत्र च स्नाप्यदेवतानियमः कार्यनियमोऽधिकारिनियमश्च पिता५महादि- भिरुक्तः—‘भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् । समभावे तु देवाना- मादित्यस्य च पा६ययेत् ॥ दुर्गायाः पाययेच्चौरान्ये च शस्त्रोपजीविनः । भास्क- रस्य तु यत्तोयं ब्राह्मणं तन्न पाययेत् ॥ दुर्गायाः स्नापयेच्छूलमादित्यस्य तु मण्डलम् । अन्येषामपि देवानां स्नापयेदायुधानि तु ॥’ इति देवतानियमः ।
१. परीक्षणीयं । २. तथापि । ३. भिमुखाय स्थिताय । मुखाय विष । ४. संश्राव्य । ५. पितामहनारदादिभिः । ६. स्नापयेत् ।