भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 321, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 321

व्यवहारोध्यायः २६५ अथ दायविभागप्रकरणम् ८ प्रमाणं मानुषं दैवमिति भेदेन वर्णितम् । अधुना वर्ण्यते दायविभागो योगमूर्त्तिना ॥ तत्र 'दाय' शब्देन यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तदुच्यते । स च द्विविधः-अप्रतिबन्धः, सप्रतिबन्धश्च । तत्र पुत्राणां पौत्राणां च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धो दायः । पितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दायः । एवं तत्पुत्रादिष्वप्यूहनीयः । विभागो नाम द्रव्यसमुदायविषयाणामने- कस्स्वाम्यानां तदेकदेशेषु व्यवस्थापनम् । एतदेवाभिप्रेत्योक्तं नारदेन-'विभागो- ऽर्थस्य पित्र्यस्य तनयैर्यत्र कल्प्यते । दायभाग इति प्रोक्तं व्यवहारपदं बुधैः (ना० १३।१) ॥' इति । पित्र्यस्येति स्वत्वनिमित्तसंबन्धोपलक्षणम् । 'तनयैः' इत्यपि प्रत्यासन्नोपलक्षणम् । इदमिह निरूपणीयम् ,-कस्मिन्काले कस्य कथं कैश्च विभागः कर्तव्य इति । तत्र कस्मिन्काले कथं कैश्चेति तत्र तत्र श्लोकव्याख्यान एव वक्ष्यते । कस्य विभाग इत्येतावदिह चिन्त्यते । किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र स्वत्वमेव तावन्निरूप्यते-किं शास्त्रैकसमधिगम्यं स्वत्वमुत प्रमाणान्तरसमधिगम्यमिति । तत्र शास्त्रैकसमधिगम्यमिति तावद्युक्तं; गौतमवचनात्-'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः ॥' (गौ० १०।३९-४२) इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचनमर्थवत्स्यात् । तथा स्तेनातिदेशे मनुः (८। ३४०)-'योऽदत्तादायिनो हस्तात्किलिप्सेत ब्राह्मणो धनम् । याजनाध्यापने- नापि यथा स्तेनस्तथैव सः ॥' इति । अदत्तादायिनः सकाशाद्याजनादिद्वारे- णापि द्रव्यमर्जयतां दण्डविधानमनुपपन्नं स्यात्स्वत्वस्य लौकिकत्वे । अपि च, लौकिकं चेत्स्वत्वं मम स्वमनेनापहृतमिति न ब्रूयात्; अपहर्तुरेव स्वस्वात् । अन्यर्थाऽन्यस्य स्वं तेनापहृतमिति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजतादिस्व- रूपवदस्य वा स्वमन्यस्य वा स्वमिति संशयो न स्यात् । तस्माच्छास्त्रैकसमधि- गम्यं स्वत्वमिति । अत्रोच्यते-'लौकिकमेव स्वत्वं लौकिकार्थक्रियासाधनत्वात् व्रीह्यादिवत् । आहवनीयादीनां हि शास्त्रगम्यानां न लौकिकक्रियासाधनत्वमस्ति ॥ नन्वाहवनीयादीनामपि पाकादिसाधनत्वमस्त्येव । नैतत्-नहि तत्राहवनीयादि-

१. अत्र पुत्रसद्भावः स्वामिसद्भावश्च प्रतिबन्धः, तदभावे पितृव्यत्वेन भ्रातृ- त्वेन च स्वं भवतीति विशेषः । २. द्रव्यस्य व्यवस्थापनं । ३. पैत्रस्य । ४. अदत्तदायिनश्चौरस्य । ५. याजनाध्यापनाद्वापि । ६. अन्यथास्वं ।