याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 320, कुल 782 में से
संदर्भ में पढ़ें२६४ याज्ञवल्क्यस्मृतिः धर्माधर्मदिव्यविधिः ॥ धर्माधर्माख्यदिव्यविधिश्च पितामहेनोक्तः । तथाच— 'अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् । हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥' इति । हन्तॄणामिति साहसाभियोगेषु, याचमानानामिति अर्थाभियोगेषु, प्रायश्चित्तार्थिनामिति पातकाभियोगेषु; 'राजतं कारयेद्धर्ममधर्मं सीसकायसम्' इति प्रतिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरमाह—'लिखेद्भूर्जे पटे वापि धर्माधर्मौ सितासितौ । अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ सितपुष्पस्तु धर्मः स्यादधर्मोऽसितपुष्पधृक् । एवंविधायोपलिख्य पिण्डयोस्तौ निधापयेत् ॥ गोमयेन मृदा वापि पिण्डौ कार्यौ समंततः । मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥ उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ । आवाहयेत्ततो देवाँल्लोकपालांश्च पूर्ववत् ॥ धर्मावाहनपूर्वं तु प्रतिज्ञापत्रके लिखेत् ॥' ततः— 'यदि पापविमुक्तोऽहं धर्मस्त्वायातु मे करे । अशुद्धश्चेन्मम करे पापे आयातु धर्मतः ॥' इति ॥ अभिशस्तोडभिमन्त्रयते—'अभियुक्तस्तयोश्चैकं प्रगृह्णीताविल- म्बितः । धर्मे गृहीते शुद्धः स्यादधर्मे तु स हीयते ॥ एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥' इति ॥ इति धर्माधर्मदिव्यविधिः ॥ अन्ये च शपथा द्रव्याहपत्वमहत्त्वविषया जातिविशेषविषयाश्च मन्वादि- भिरुक्ताः । ते यथा—'निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् । त्रिकाद्- र्वाक्तु पुण्यं स्यात्कोशपानमतः परम् ॥' (मनुः ८।११३ ) 'सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥' ( मनुः ८।११३ ) इत्यादयः । अत्र च शुद्धिविभावना मनुनेोक्ता (८।११५ )—'न चाऽऽर्त्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः' इति । आर्तिरपि 'यस्य नो राज- दैविकं व्यसनं जायते घोरम्' इत्युक्तैव । कालनियमश्च एकरात्रमारभ्य त्रिरात्र- पर्यन्तं त्रिरात्रमारभ्य पञ्चरात्रपर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवप- र्यालोचनया द्रष्टव्यम् ॥ एवं दिव्यैर्जयपरा जयावधारणे दण्डविशेषोऽपि दर्शितः कात्यायने—'शताधं दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत्' इति । तं दण्डमाह— 'विषे तोये हुताशे च तुलाकोशे च तण्डुले । तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ सहस्रं षट्शतं चैव तथा पञ्चशतानि च । चतुस्त्रिद्व्येकमेवं च हीनं हीनेषु कल्पयेत् ॥' इति ॥ 'निह्नवे भावितो दद्याद्' इत्युक्तदण्डेनायं दिव्य- निबन्धनो दण्डः समुच्चीयते ॥ इति दिव्यप्रकरणम् ॥ १. पापमायातु ।