भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

२६४ याज्ञवल्क्यस्मृतिः धर्माधर्मदिव्यविधिः ॥ धर्माधर्माख्यदिव्यविधिश्च पितामहेनोक्तः । तथाच— 'अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् । हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥' इति । हन्तॄणामिति साहसाभियोगेषु, याचमानानामिति अर्थाभियोगेषु, प्रायश्चित्तार्थिनामिति पातकाभियोगेषु; 'राजतं कारयेद्धर्ममधर्मं सीसकायसम्' इति प्रतिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरमाह—'लिखेद्भूर्जे पटे वापि धर्माधर्मौ सितासितौ । अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ सितपुष्पस्तु धर्मः स्यादधर्मोऽसितपुष्पधृक् । एवंविधायोपलिख्य पिण्डयोस्तौ निधापयेत् ॥ गोमयेन मृदा वापि पिण्डौ कार्यौ समंततः । मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥ उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ । आवाहयेत्ततो देवाँल्लोकपालांश्च पूर्ववत् ॥ धर्मावाहनपूर्वं तु प्रतिज्ञापत्रके लिखेत् ॥' ततः— 'यदि पापविमुक्तोऽहं धर्मस्त्वायातु मे करे । अशुद्धश्चेन्मम करे पापे आयातु धर्मतः ॥' इति ॥ अभिशस्तोडभिमन्त्रयते—'अभियुक्तस्तयोश्चैकं प्रगृह्णीताविल- म्बितः । धर्मे गृहीते शुद्धः स्यादधर्मे तु स हीयते ॥ एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥' इति ॥ इति धर्माधर्मदिव्यविधिः ॥ अन्ये च शपथा द्रव्याहपत्वमहत्त्वविषया जातिविशेषविषयाश्च मन्वादि- भिरुक्ताः । ते यथा—'निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् । त्रिकाद्- र्वाक्तु पुण्यं स्यात्कोशपानमतः परम् ॥' (मनुः ८।११३ ) 'सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥' ( मनुः ८।११३ ) इत्यादयः । अत्र च शुद्धिविभावना मनुनेोक्ता (८।११५ )—'न चाऽऽर्त्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः' इति । आर्तिरपि 'यस्य नो राज- दैविकं व्यसनं जायते घोरम्' इत्युक्तैव । कालनियमश्च एकरात्रमारभ्य त्रिरात्र- पर्यन्तं त्रिरात्रमारभ्य पञ्चरात्रपर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवप- र्यालोचनया द्रष्टव्यम् ॥ एवं दिव्यैर्जयपरा जयावधारणे दण्डविशेषोऽपि दर्शितः कात्यायने—'शताधं दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत्' इति । तं दण्डमाह— 'विषे तोये हुताशे च तुलाकोशे च तण्डुले । तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ सहस्रं षट्शतं चैव तथा पञ्चशतानि च । चतुस्त्रिद्व्येकमेवं च हीनं हीनेषु कल्पयेत् ॥' इति ॥ 'निह्नवे भावितो दद्याद्' इत्युक्तदण्डेनायं दिव्य- निबन्धनो दण्डः समुच्चीयते ॥ इति दिव्यप्रकरणम् ॥ १. पापमायातु ।

अथ दायविभागप्रकरणम् ८

व्यवहारोध्यायः २६५ अथ दायविभागप्रकरणम् ८ प्रमाणं मानुषं दैवमिति भेदेन वर्णितम् । अधुना वर्ण्यते दायविभागो योगमूर्त्तिना ॥ तत्र 'दाय' शब्देन यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तदुच्यते । स च द्विविधः-अप्रतिबन्धः, सप्रतिबन्धश्च । तत्र पुत्राणां पौत्राणां च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धो दायः । पितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दायः । एवं तत्पुत्रादिष्वप्यूहनीयः । विभागो नाम द्रव्यसमुदायविषयाणामने- कस्स्वाम्यानां तदेकदेशेषु व्यवस्थापनम् । एतदेवाभिप्रेत्योक्तं नारदेन-'विभागो- ऽर्थस्य पित्र्यस्य तनयैर्यत्र कल्प्यते । दायभाग इति प्रोक्तं व्यवहारपदं बुधैः (ना० १३।१) ॥' इति । पित्र्यस्येति स्वत्वनिमित्तसंबन्धोपलक्षणम् । 'तनयैः' इत्यपि प्रत्यासन्नोपलक्षणम् । इदमिह निरूपणीयम् ,-कस्मिन्काले कस्य कथं कैश्च विभागः कर्तव्य इति । तत्र कस्मिन्काले कथं कैश्चेति तत्र तत्र श्लोकव्याख्यान एव वक्ष्यते । कस्य विभाग इत्येतावदिह चिन्त्यते । किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र स्वत्वमेव तावन्निरूप्यते-किं शास्त्रैकसमधिगम्यं स्वत्वमुत प्रमाणान्तरसमधिगम्यमिति । तत्र शास्त्रैकसमधिगम्यमिति तावद्युक्तं; गौतमवचनात्-'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः ॥' (गौ० १०।३९-४२) इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचनमर्थवत्स्यात् । तथा स्तेनातिदेशे मनुः (८। ३४०)-'योऽदत्तादायिनो हस्तात्किलिप्सेत ब्राह्मणो धनम् । याजनाध्यापने- नापि यथा स्तेनस्तथैव सः ॥' इति । अदत्तादायिनः सकाशाद्याजनादिद्वारे- णापि द्रव्यमर्जयतां दण्डविधानमनुपपन्नं स्यात्स्वत्वस्य लौकिकत्वे । अपि च, लौकिकं चेत्स्वत्वं मम स्वमनेनापहृतमिति न ब्रूयात्; अपहर्तुरेव स्वस्वात् । अन्यर्थाऽन्यस्य स्वं तेनापहृतमिति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजतादिस्व- रूपवदस्य वा स्वमन्यस्य वा स्वमिति संशयो न स्यात् । तस्माच्छास्त्रैकसमधि- गम्यं स्वत्वमिति । अत्रोच्यते-'लौकिकमेव स्वत्वं लौकिकार्थक्रियासाधनत्वात् व्रीह्यादिवत् । आहवनीयादीनां हि शास्त्रगम्यानां न लौकिकक्रियासाधनत्वमस्ति ॥ नन्वाहवनीयादीनामपि पाकादिसाधनत्वमस्त्येव । नैतत्-नहि तत्राहवनीयादि-

१. अत्र पुत्रसद्भावः स्वामिसद्भावश्च प्रतिबन्धः, तदभावे पितृव्यत्वेन भ्रातृ- त्वेन च स्वं भवतीति विशेषः । २. द्रव्यस्य व्यवस्थापनं । ३. पैत्रस्य । ४. अदत्तदायिनश्चौरस्य । ५. याजनाध्यापनाद्वापि । ६. अन्यथास्वं ।

[Page Header] २६६ याज्ञवल्क्यस्मृतिः

रूपेण पाकादिसाधनत्वम् । किं तर्हि ? प्रत्यक्षादिपरिदृश्यमानानल्यादिरूपेण । इह तु सुवर्णादिरूपेण न क्रयादिसाधनत्वमपि तु स्वत्वेनैव । नहि यस्य यत्स्वं न भवति तत्तस्य क्रयाद्यर्थक्रियां साधयति ॥ अपि च,-प्रत्यन्तवासिनामप्यदृष्टशास्त्रव्यवहा- राणां स्वत्वव्यवहारो दृश्यते; क्रयविक्रयादिदर्शनात् । किंच,-नियतोपायकं स्वत्वं लोकसिद्धमेवेति न्यायविदो मन्यन्ते । तथा हि—लिप्स़ासूत्रे तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वमेव न स्यात् । स्वत्वस्यालौकिकत्वादिति पूर्वपक्षासंभवमाशङ्क्य द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्ध- मिति पूर्वपक्षः समर्थितो गुरुणा—ननु च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वमेव न भवतीति याग एव न संवर्तेत । प्रलपितमिदं केनापि ‘अर्जनं स्वत्वं नापादय- तीति विप्रतिषिद्धम्' इति वदता । तथा सिद्धान्तेऽपि स्वत्वस्य लौकिकत्वम- ङ्गीकृत्यैव विचारप्रयोजनमुक्तम् , अतो 'नियमातिक्रमः पुरुषस्य न क्रतोः’ इति । अस्य चार्थ एवं विवृतः—यदा द्रव्यार्जननियमानां क्रत्वर्थत्वं तदा नियमार्जितेनैव द्रव्येण क्रतुसिद्धिनं नियमातिक्रमार्जितेन द्रव्येण न क्रतुसिद्धि- रिति न पुरुषस्य नियमातिक्रमदोषैः पूर्वपक्षे । सिद्धान्ते स्वजंननियमस्य पुरुषा- र्थत्वात्तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर्भवति, पुरुषस्यैव नियमातिक्रम- दोष इति नियमातिक्रमार्जितस्यापि स्वत्वमङ्गीकृतम्,-अन्यथा क्रतुसिद्ध्यभा- वात् , न चैतावता चौर्यादिप्राप्तस्यापि स्वत्वं स्यादिति मन्तव्यम् । लोके तत्र स्वत्वप्रसिद्ध्यभावात् , व्यवहारविसंवादाच्च एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके स्थिते—‘ब्राह्मणस्य प्रतिग्रहादय उपायाः, क्षत्रियस्य विजितादयः, वैश्यस्य कृष्यादयः, शूद्रस्य शुश्रूषादयः' इत्यदृष्टार्था नियमाः । रिक्थादयस्तु सर्वसा- धारणाः—‘स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु’ ( गौ० १०।३९ ) इत्युक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रसिद्धः । संविभागः सप्रति- बन्धो दायः । परिग्रहोऽनन्यपूर्वस्य जलतृणकाष्ठादेः स्वीकारः । अधिगमो निध्यादेः प्राप्तिः । एतेषु निमित्तेषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते स्वामी । ‘ब्राह्मणस्याधिकं लब्धम्’ ( गौ० १०।४० ) इति ब्राह्मणस्य प्रतिग्र- हादिना यल्लब्धं तदधिकमसाधारणम् । ‘क्षत्रियस्य विजितम्’ ( गौ० १०।४१ ) इत्यत्राधिकमित्यनुवर्तते । क्षत्रियस्य विजयदण्डादिलब्धमसाधार- णम् । 'निर्विरुं वैश्यशूद्रयोः' ( गौ० १०।४२ ) इत्यत्राप्यधिकमित्यनुवर्तते । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तदसाधारणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यल्लब्धं तदसाधारणम् । एवमनुलोमजानां प्रतिलोमजानां च

१. नियतोपाधिकं । २. क्रतुसिद्धिनियमातिक्रमार्जितेन द्रव्येण न क्रतुसिद्धिरिति । ३. दोष इति पूर्वपक्षे । ४. कृतेषु ।

व्यवहाराध्यायः २६७

लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तं 'सूतानामश्वसारथ्यम्' इत्यादि तत्तत्सर्वं निर्विष्टशब्देनोच्यते सर्वस्यापि भृतिरूपत्वात् ॥ 'निर्वेशो भृतिभो- गयोः' (तृ० ना० २।४) इति त्रिकाण्डीस्मरणात् । तत्तदसाधारणं वेदि- तव्यम् । यदपि 'पत्नी दुहितरश्चैव' (व्य० १३५) इत्यादिस्मरणं तत्रापि स्वामिसंबन्धितया बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे व्यामोहनिवृत्त्यर्थं स्मरणमिति सर्वमनवद्यम् ॥ यदपि मम स्वमनेनापहृतमिति न ब्रूयात्स्वत्वस्य लौकिकत्व इति;-तदप्यसत् ; स्वत्वहेतुभूतक्रयादिसंदेहात्स्वत्व- संदेहोपपत्तेः । विचारप्रयोजनं तु-'यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥' इति । शास्त्रैकसमधिगम्ये स्वत्वे । गर्हितेनासत्प्रतिग्रहवाणिज्यादिना लब्धस्य स्वत्वमेव नास्तीति तत्पुत्राणां १तदविभाज्यमेव । यदा तु २लौकिकं स्वत्वं तदाऽसत्प्रतिग्रहादिलब्धस्यापि स्वत्वात्तत्पुत्राणां तद्विभाज्यमेव । 'तस्योत्सर्गेण शुद्ध्यन्ति' इति प्रायश्चित्तमर्ज- यितुरेवं, तत्पुत्रादीनां तु दायत्वेन स्वत्वमिति न तेषां दोषसंबन्धः; 'सप्त वित्ता- गमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥' इति (१०।११५) मनुस्मरणात् ॥ इदानीमिदं संदिह्यते-'किं विभागात्स्वत्वं३मुत स्वस्य सतो विभाग इति । तत्र विभागात्स्वत्व३मिति तावद्युक्तम् ; जातपुत्रस्याधानविधानात् । यदि जन्मनैव स्वत्वं स्यात्तदोत्पन्नस्य पुत्रस्यापि तत्स्वं साधारणमिति द्रव्यसाध्येष्वाधानादिषु पितुरनधिकारः स्यात् । तथा विभागात्प्राक् पितृप्रसादलब्धस्य विभागप्रतिषेधो नोपपद्यते; सर्वानुमत्या दत्तत्वाद्विभागप्राप्त्यभावात् । यथाह-'शौर्यभार्याधने चोभे यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥' (ना० १३।६) इति ॥ तथा 'भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्नीयाद्दद्याद्वा स्थावरादृते ॥' इति प्रीतिदानवचनं च नोपपद्यते- जन्मनैव स्वत्वे । नच 'स्थावरादृते यद्दत्तम्' इति संबन्धो युक्तः; व्यवहितयो- जनाप्रसङ्गात् । यदपि-'मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥' तथा-'पितृप्रसादाद्भुज्यन्ते वस्त्राण्याभरणानि च । स्थावरं तु न भुज्येत प्रसादे सति पैतृके ॥'इति स्थावरस्य प्रसाद४दानप्रतिषे- धवचनं, तत्पितामहोपात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पित्रापुत्रयोः साधारणमपि५ मणिमुक्तादि पितुरेव, स्थावरं तु साधारणमित्यस्मादेव वचनाद- वगम्यते । तस्मान्न जन्मना स्वत्वं किंतु स्वामिनाशाद्विभागाद्वा स्वत्वम् । अत


१. न विभाज्यमेव । २. स्वत्वं लौकिकं तदा । ३. स्वत्वमुत । ४. प्रसा- दादिह न प्रति । प्रसाददाने प्रति । ५. समानमपि ।

२६८ याज्ञवल्क्यस्मृतिः

एव पितुरूर्ध्वं विभागातप्राग्द्रव्यस्वत्वस्य प्रहीणत्वादन्येन गृह्यमाणं न निवार्यत इति चोद्यस्यानवकाशः । तथैकपुत्रस्यापि पितृप्रयाणादेव पुत्रस्य स्वमिति न विभागमपेक्षत इति । अत्रोच्यते-लोकप्रसिद्धमेव स्वत्वमित्युक्तम् । लोके च पुत्रादीनां जन्मनेव स्वत्वं प्रसिद्धतरं नापहूवमर्हति । 'विभाग'शब्दश्च बहुस्वा- मिकधनविषयो¹ लोकप्रसिद्धः, नान्यदीयैविषयो न प्रहीणविषयः; तथा³ 'उत्प- त्यैवार्थस्वामित्वं लभेतेत्याचार्याः' इति गौतमवचनाच्च । 'मणिमुक्ताप्रवाला- नाम्' इत्यादिवचनं च जन्मना स्वत्वपक्ष एवोपपद्यते । नच पितामहो- पात्तस्थावरविषयमिति युक्तम् ; 'न पिता न पितामहः' इति वचनात् । पिता⁴महस्य हि स्वार्जितमपि पुत्रे पौत्रे च सत्यदेयमिति वचनं जन्मना स्वत्वं गमयति । तथा परमते मणिमुक्ता⁵प्रवालवस्त्राभरणादीनां पैतामहाना- मपि पितुरेव स्वत्वं; वचनात् , एवमस्मन्मतेऽपि पित्रार्जितानामप्येतेषां⁶ पितुर्दानाधिकारः, वचनादित्यविशेषः ॥ यत्तु 'भर्त्रा प्रीतेन' इत्यादि विष्णु- वचनं स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयै- वेति व्याख्येयम् ; पूर्वोक्तैर्मणिमुक्तादिवचनैः स्थावरव्यतिरिक्तस्यैव प्रीति- दानयोग्यत्वनिश्चयात् ॥ यदप्यर्थसाध्येषु वैदिकेषु कर्मस्वनधिकार इति, तन्न तद्विधानबलादेवाधिकोरो गम्यते । तस्मात्पैतृके पैतामहे च द्रव्ये जन्म- नैव स्वत्वम् , तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकु- तुम्बभरणापद्विमोक्षादिषु⁷ च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्यमिति स्थितम् । स्थावरे तु स्वार्जिते पित्रादिप्राप्ते चपुत्रादिपारतन्त्र्यमेव; 'स्थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । असंभूय सुतान्सर्वान्न दानं न च विक्रयः ॥ ये जाता येऽप्यजाताश्च ये च गर्भे व्यवस्थिताः । वृत्तिं च तेऽभिकाङ्क्षन्ति न दानं न च विक्रयः ॥' इत्यादिसमरणात् । अस्यापवादः—'एकोऽपि स्थावरे कुर्याद्दा- नाधमनविक्रयम् । आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥' इति । अस्यार्थः- अप्राप्तव्यवहारेषु पुत्रेषु पौत्रेषु वाऽनुज्ञानादावसमर्थेषु भ्रातृषु वा तथाविधेष्व- विभक्तेष्वपि सकलकुटुम्बव्यापिन्यामापदि तत्पोषेणे वाऽवश्यं कर्तव्येषु च पितृ- श्राद्धादिषु स्थावरस्य दानाधमनविक्रयमेकोऽपि समर्थः कुर्यादिति । यत्तु वच- नम्—'विभक्ता वाऽविभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधमनविक्रये ॥' इति, तदप्यविभक्तेषु द्रव्यस्य मध्यस्थत्वादेकस्यानीश्वरं- त्वात् सर्वाभ्यनुज्ञाऽवश्यं कार्या । विभक्तेषु तूत्तरकालं विभक्ताविभक्तसंशयव्यु-


१. प्रसिद्धो । २. न्यदीयधनविषयो । ३. तं तथोत्पत्त्येव । ४. पितृपि- तामहस्य । ५. मुक्तावस्त्राभरणा । ६. एतेषां मणिमुक्तादीनां । ७. विमोक्ष- णादिषु । ८. वा अनुज्ञादा । अनुज्ञादानादाव : ९. अनीशकत्वात् ।

व्यवहाराध्यायः २६६

दानेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनरेकस्यानीश्वरत्वेन, अतो विभक्ता- नुमतिव्यतिरेकेणापि व्यवहारः सिद्धयेवेति व्याख्येयम् । यदपि—'स्वग्रामज्ञा- तिसामन्तदायादानुमतेन च । हिरण्योदकदानेन षड्भिर्गच्छति मेदिनी ॥' इति, तत्रापि ग्रामानुमतिः, 'प्रतिग्रहप्रकाशः स्यात्स्थावरस्य विशेषतः' ( व्य० १७६ ) इति स्मरणात् व्यवहारप्रकाशनार्थमेवापेक्ष्यते, न पुनर्ग्रामानुमत्या विना व्यवहारासिद्धिः । सामन्तानुमतिस्तु सीमाविप्रतिपत्तिनिरासाय । ज्ञातिदाया- दानुमतेस्तु प्रयोजनमुक्तमेव 'हिरण्योदकदानेन' इति; 'स्थावरे विक्रयो नास्ति कुर्यादाधिमनुज्ञया' इति स्थावरस्य विक्रयप्रतिषेधात्, 'भूमिं यः प्रति- गृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥' इति दानप्रशंसादर्शनाच्च । विक्रयेऽपि कर्तव्ये सहिरण्यमुदकं दत्वा दानरूपेण स्थावरविक्रयं कुर्यादित्यर्थः । पैतृके पैतामहे च धने जन्मनेव स्वत्वेऽपि विशेषं 'भूर्या पितामहोपात्ता' ( व्य० १२१ ) इत्यत्र वक्ष्यामः ॥ इदानीं यस्मिन्काले येन च यथा विभागः कर्तव्यस्तद्दर्शयंन्नाह—

विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ ११४ ॥

यदा विभागं पिता चिकीर्षति तदा इच्छया विभजेत् पुत्रान्नात्मनः सका- शात्·पुत्रं पुत्रौ पुत्रान् । इच्छाया निरङ्कुशत्वान्नियमप्राप्तौ नियमार्थमाह— ज्येष्ठं वा श्रेष्ठभागेनेति । ज्येष्ठं श्रेष्ठभागेन, मध्यमं २मध्यभागेन, कनिष्ठं कनिष्ठ- भागेन, 'विभजेत्' इत्यनुवर्तते । श्रेष्ठादिविभागश्च मनुनोक्तः ( ९।११२ )— 'ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥' इति । 'वा' शब्दो वक्ष्यमाणपक्षापेक्षः । सर्वे वा स्युः समांशिन इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागः स्वार्जितद्रव्यविषयः । पितृक्रमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वान्नेच्छया विषमो विभागो युक्तः । विभागं चेत्पिता कुर्यादिति । यदा पितुर्विभागेच्छा स तावदेकः कालः । अपरोऽपि जीव३त्यपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि च निवृत्तरजस्कायां, पितुरनिच्छायामपि पुत्रेच्छयैव विभागो भवति । यथोक्तं नारदेन ( १३।३ )—'अत ऊर्ध्वं पितुः पुत्रा विभजेयुर्धनं समम्' इति पित्रो- रूर्ध्वं विभागं प्रतिपाद्य—'मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि रमणे पितुर्युपरतस्पृहे ॥' इति दर्शितः । अत्र 'पुत्रा धनं समं विभजेयुः' इत्यनुषज्यते । गौतमेनापि—'ऊर्ध्वं पितुः पुत्रा रिक्थं विभजेरन्' ( २८।१ )

१. सीमाप्रतिपत्ति । २. मध्यमभागेन । ३. जीवत्येव ।

२७० याज्ञवल्क्यस्मृतिः इत्युक्त्वा ‘निवृत्ते चापि रजसि’ (गौ० २८।२) इति द्वितीयः कालो दर्शितः । ‘जीवति चेच्छति’ (गौ० २८।२) इति तृतीयः कालो दर्शितः । तथा सरज- स्कायामपि मातर्यनिवृत्तस्पृहेऽपि पितर्यधर्मवर्तिनि दीर्घरोगग्रस्ते च पुत्राणामिच्छया भवति विभागः । यथाह शङ्खः—‘अकामे पितरि रिक्थविभागो वृद्धे विपरीत- चेतसि रोगिणि च’ इति ॥ ११४ ॥ भाषा—यदि पिता (संपत्ति का) विभाग करे तो उसे अपनी इच्छानुसार पुत्रों में बाँटे । ज्येष्ठ पुत्र को श्रेष्ठभाग (मझले को मध्यम और सबसे छोटे को कनिष्ठभाग) देकर विभाजन करे अथवा सबको समान अंश देवे ॥ ११४ ॥ पितुरिच्छया विभागो द्विधा दर्शितः-समो विषमश्च; तत्र समविभागे विशेषमाह— यदि कुर्यात्समानांशान् पत्न्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ ११५ ॥ यदा स्वेच्छया पिता सर्वानैन सुतान् समविभागिनः करोति तदा पत्न्यश्च पुत्रसमांशभाजः कर्तव्याः, यांसां पत्नीनां भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने अर्धांशं वक्ष्यति (व्य० १४८)—‘दत्ते त्वर्धं प्रकल्पयेत्’ इति ॥ यदा तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति तदा पत्न्यः श्रेष्ठादिभागान्न लभन्ते, किंतुद्धृतोद्धारात्समुदायात्समानेवांशॉल्लभन्ते स्वोद्धारं च ॥ यथाहापस्तम्बः (ध० २।१४।९)—‘परीभाण्डं च गृहेऽलङ्कारो भार्यायाः’ इति ॥ ११५ ॥ भाषा—यदि अपनी इच्छा से पिता सभी पुत्रों को समान अंश देता है तो उसे उन पत्नियों को भी समान भाग देना चाहिए, जिन्हें अपने पति से या श्वशुर स्त्रीधन नहीं मिला है ॥ ११५ ॥ ‘ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः’ (व्य० ११४) इति पक्षद्वयेऽप्यपवादमाह— शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक्क्रिया । स्वयमेव द्रव्यार्जनसमर्थस्य पितृद्रव्यमनीहमानस्यानिच्छतोऽपि यत्किंचिद- सारमपि दत्त्वा पृथक्क्रिया विभागः कर्तव्यः पित्रा । तत्पुत्रादीनां नादजिघृक्षा मा भूदिति ॥— १. निच्छुतो यत्किंचिदसारमपृथक् ।

[Page Header] व्यवहाराध्यायः २७१ 'ज्येष्ठं वा श्रेष्ठभागेन' ( व्य० ११४ ) इति न्यूनाधिकविभागो दर्शितः । तत्र शास्त्रोक्तोद्धारादिविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थमाह— न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ ११६ ॥ न्यूनाधिकविभागेन विभक्तानां पुत्राणामसौ न्यूनाधिकविभागो यदि धर्म्यः शास्त्रोक्तो भवति तदाऽसौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभिः स्मृतः । अन्यथा तु पितृकृतोऽपि निवर्तत इत्यभिप्रायः । यथाह नारदः ( १३।६ )—'व्याधितः कुपितश्चैव विषयासक्तमानसः । अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥' इति ॥ ११६ ॥ भाषा—जो पुत्र स्वयं द्रव्यार्जन करने में समर्थ हो उसे उसके न चाहने पर भी कुछ देकर बँटवारा करना चाहिए । यदि पिता द्वारा पुत्रों में किया गया न्यून या अधिक विभाजन धर्म के अनुसार है तो वह परिवर्तनीय नहीं होता ॥ ११६ ॥ इदानीं विभागस्य कालान्तरं कर्तृन्तरं प्रकारनियममाह— विभजेरन्सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् । पित्रोर्मातापित्रोरूर्ध्वं ४प्रयाणादिति कालो दर्शितः । सुता इति कर्तारो दर्शिताः । सममिति प्रकारनियमः । सममेवेति रिक्थमृणं च विभजेरन् । ननु- 'ऊर्ध्वं पितुश्च मातुश्च' ( मनुः ९।१०४ ) इत्युपक्रम्य ( मनुः ९।१०५ )—'ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥' इत्युक्त्वोक्तम् ( मनुः ९।११२ )—'ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥' इति । सर्वस्माद्द्रव्यसमुदाया- द्विशतितमो भागः सर्वद्रव्येभ्यश्च यच्छ्रेष्ठं तज्ज्येष्ठाय दातव्यम् ; तदर्धं चत्वारिं- शत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् ; तुरीयमशीतितमो भागो हीनं द्रव्यं च कनिष्ठाय दातव्यमिति मातापित्रोरूर्ध्वं विभजतामुद्धारविभागो मनुना दर्शितः । तथा ( ९।११६।११७ )—'उद्धारेऽनुद्धृते त्वेषामियं स्यादंश- कल्पना । एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः ॥ अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥' इति । ज्येष्ठस्य द्वौ भागौ, तदनन्तरजातस्य सार्ध एको भागः ततोऽनुजानामेकैकौ विभाग इत्युद्धारव्यतिरेकेणापि विषमो विभागो


१. धर्मः । २. विभजेयुः । ३. रूध्वंमृणं । ४. प्रायणात् । ५. तदर्धं मध्यमस्य स्यात्तदधं तु कनीयस इति । ६. द्वनसमुच्चयात् ।

दर्शितैः पित्रोरूर्ध्वं विभजताम् । जीवद्विभागे च स्वयमेव विषमो विभागो दर्शितः—'ज्येष्ठं वा श्रेष्ठभागेन' ( व्य० ११४ ) इति । अतः सर्वस्मिन्नपि काले विषमो विभागोऽस्तीति कथं सममेव विभजेरन्निति नियम्यते ॥ अत्रोच्यते— सत्यम्, अयं विषमो विभागः शास्त्रदृष्टस्तथापि लोकविद्विष्टत्वान्नानुष्ठेयः; 'अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु' ( आ० १५६ ) इति निषेधात् । यथा 'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' ( आ० १०९ ) इति विधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । यथा वा—'मैत्रावरुणीं गां वशामनु- बन्ध्यामालभेत' इति गवालम्भनविधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । उक्तं च—'यथा नियोगधर्मो ४नो नानुबन्ध्यावधोऽपि वा । तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥' इति । ( नियोगमनतिक्रम्य यथानियोगं, नियोगाधीनो यो धर्मो 'देवराच्च सुतोत्पत्ति'रित्यादिः स नो भवति ) आपस्तम्बोऽपि ( आ० ध० २।१४।१ )—'जीवन्पुत्रेभ्यो दायं विभजेत्समम्' इति ५समतामुक्त्वा— 'ज्येष्ठो दायाद इत्येके' ( आ० ध० २।१४।५ ) इति 'कृत्स्नधन' ग्रहणं ज्येष्ठ- स्यैकीयमतेनोपन्यस्य देशविशेषे६ सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य रथः पितुः ७परीभाण्डं च गृहेऽलंकारो भार्याया ज्ञातिधनं चेत्येके' ( ध० २।१४। ६-९ ) इत्येकीयमतेनैवमुद्धारविभागं दर्शयित्वा 'तच्छास्त्रैर्विप्रतिषिद्धम्' ( आ० ध० २।१४।१० ) इति निराकृतवान् । तं च ८शास्त्रविप्रतिषेधं स्वयमेव दर्शयति स्म 'मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते' (अ० २।१४।११) इति । तस्माद्विषमो विभागः शास्त्रदृष्टोऽपि लोकविरोधाच्छ्रुतिविरोधाच्च नानु- ष्ठेय इति सममेव विभजेरन्निति नियम्यते ॥— मातापित्रोर्धनं सुता विभजेरन्नित्युक्तं, तत्र मातृधनेऽपवादमाह— मातुर्दुहितरः शेषमृणात् मातृधनं दुहितरो विभजेरन् । ऋणाच्छेषं मातृकृतर्णपाकरणावशिष्टम् । अतश्चर्णसमं न्यूनं वा मातृधनं सुता विभजेरन्नित्यस्य विषयः । एतदुक्तं भवति —मातृकृतमृणं पुत्रैरेवापाकरणीयं, न दुहितृभिः । ऋणावशिष्टं तु धनं दुहितरो गृह्णीयुरिति । युक्तं चैतत्—'पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः' ( मनुः ३।४९ ) इति स्त्र्यवयवानां दुहितृषु बाहुल्यात् स्त्रीधनं दुहितृगामि, पितृधनं पुत्रगामि; पित्रवयवानां पुत्रेषु बाहुल्यादिति । तत्र च गौतमेन विशेषो १. दर्शितो मनुना । २. कथं विभजेरन्निति सममेव नियम्यते । ३. शास्त्र- दृष्टोऽस्ति । ४. धर्मोऽन्यो । ५. स्वमत्तमुक्त्वा । ६. विशेषेषु । विशेषेण । ७. परिभाण्डं । ८. विप्रतिषिद्धं । ९. कृतर्णं ।

व्यवहाराध्यायः २७३ दर्शितः ( २८।२४ )—'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च' इति । अस्यार्थः—प्रत्ताऽप्रत्तासमवायेऽप्रत्तानामेव स्त्रीधनम् । प्रत्तासु च प्रतिष्ठिताप्रति- ष्ठितासमवायेऽप्रतिष्ठितानां चेवेति । अप्रतिष्ठिता निर्धनाः ॥— दुहित्रभावे मातृधनमृणावशिष्टं को गृह्णीयादित्यत आह— ताभ्य ऋतेऽन्वयः ॥ ११७ ॥ ताभ्यो दुहितृभ्यो विना दुहितॄणामभावे अन्वयः पुत्रादिर्गृह्णीयात् । एतच्च—'विभजेरन्सुताः पित्रोरूर्ध्वम्' ( व्य० ११७ ) इत्यनेनैव सिद्धं स्पष्टार्थ- मुक्तम् ॥ ११७ ॥ भाषा—माता और पिता की मृत्यु के बाद सभी पुत्र मिल कर पिता की सम्पत्ति एवं ऋण का बराबर-बराबर विभाजन कर लें । माता का धन पुत्रियाँ बाँट लें और पुत्रियाँ न हों तो ( माता का धन भी ) पुत्र ग्रहण करें ॥११७॥ अविभाज्यमाह— पितृद्रव्याविरोधेन यदन्यत् स्वयमर्जितम् । मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ ११८ ॥ क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत्तु यः । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ ११९ ॥ मातापित्रोर्द्रव्याविनाशेन यत्स्वयमर्जितं, मैत्रं मित्रसकाशाल्लब्धं, औद्वाहिकं विवाहलब्धं दायादानां भ्रातृणां तन्न भवेत् । क्रमात्पितृक्रमादायातं यत्किञ्चिद्द्रव्यं अन्यैर्हतमसामर्थ्यादिना पित्रादिभिरनुद्धृतं यः पुत्राणां मध्य इतराभ्यनुज्ञयोद्धरति तद्दायादेभ्यो भ्रात्रादिभ्यो न दद्यात्, उद्धर्तैव गृह्णीयात् । तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते, शेषं तु सर्वेषां सममेव । यथाह शङ्खः—'पूर्वं नष्टां तु यो भूमिमेकश्चेदुद्धरेत्क्रमात् । यथाभागं लभन्तेऽन्ये दत्त्वांशं तु तुरीय- कम् ॥' इति । क्रमादभ्यागतमिति शेषः । तथा विद्यया वेदाध्ययनेनाध्यापनेन वेदार्थव्याख्यानेन वा यल्लब्धं तदपि दायादेभ्यो न दद्यात्, अर्जक एव गृह्णीयात् । अत्र च 'पितृद्रव्याविरोधेन यत्किंचित्स्वयमर्जितम् ॥' इति सर्वत्र शेषः । अतश्च पितृद्रव्याविरोधेन यन्मैत्रमर्जितं पितृद्रव्याविरोधेन यदौद्वाहिकं, पितृद्रव्याविरोधेन यत्क्रमादायातमुद्धृतं, पितृद्रव्याविरोधेन विद्यया यल्लब्धमिति प्रत्येकमभिसंबध्यते । तथा च पितृद्रव्याविरोधेन प्रत्युपकारेण यन्मैत्रम् , आसुरादिविवाहेषु यल्लब्धम् , तथा पितृद्रव्यव्ययेन यत्क्रमायातमुद्धृतं तथा पितृद्रव्यव्ययेन लब्धया विद्यया यल्लब्धम् , तत्सर्वं सर्वैर्भातृभिः पित्रा च १. मभ्युद्धरेत्तु । २. सर्वत्र शेषः । ३. क्रमायातं ।

२७४ याज्ञवल्क्यस्मृतिः

विभेजनॊयम् १ । तथा ‘पितृद्रव्याविरोधेन’ इत्यस्य सर्वशेषत्वादेव पितृद्रव्य- विरोधेन प्रतिग्रहलब्धमपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वा- हिकमित्यादिनारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन्मैत्रादिलब्धं तस्या- विभाज्यत्वाय मैत्रादिवचनमर्थवदित्युच्यते । तथा सति समाचारविरोधः, विद्या- लब्धे नारदवचनविरोधश्च ।—‘कुटुम्बं बिभृयाद् भ्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् ॥’ (नारदः १३।१०) इति । तथा विद्याधनस्याविभाज्यस्य लक्षणमुक्तं कात्यायनेन—‘परभक्तोपयोगेन विद्या प्राप्ता- न्यतस्तु या । तया लब्धं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥’ इति । तथा ‘पितृ- द्रव्याविरोधेन’ इत्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वमाचारविरुद्धा२- मापद्येत । एतदेव स्पष्टीकृतं मनुना ( ९।२०८)—‘अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जितम् । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥’ इति श्रमेण सेवा- युद्धादिना । ननु पितृद्रव्याविरोधेन यन्मैत्रादिलब्धं द्रव्यं तदविभाज्यमिति न वक्तव्यम् ; विभागप्राप्त्यभावात् । यद्येन लब्धं तत्तस्यैव, नान्यस्येति प्रसिद्ध- तरम् । प्राप्तिपूर्वकश्च प्रतिषेधः ३ । अत्र कश्चिदिथं प्राप्तिमाह—‘यत्किञ्चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥’ ( मनुः ९।२०४ ) इति । ज्येष्ठो वा कनिष्ठो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेति व्याख्यानेन पितरि सत्यसति च मैत्रादीनां विभाज्यत्वं प्राप्तं प्रतिषिध्यत इति,—तदसत्; नह्यत्र प्राप्तस्य प्रतिषेधः, किंतु सिद्धस्यैवानुवादोऽयम् । लोकसिद्धस्यैवानुवादकान्येव प्रायेणास्मिन्प्रकरणे वचनानि । अथवा ‘समवेतैस्तु यत्प्राप्तं सर्वं तत्र समांशिनः ।’ इति प्राप्तस्या- पवाद इति संतुष्यतु भवान् । अतश्च ‘यत्किञ्चित्पितरि प्रेते’ इत्यस्मिन्वचने ज्येष्ठादिपदाविवक्षया प्राप्तिरिति व्यामोहमात्रम् । अतो मैत्रादिवचनैः पितुः प्रागूर्ध्वं वा४विभाज्यत्वेनोक्तस्य ‘यत्किंचित्पितरि प्रेते’ इत्यपवादं ५ इति व्याख्ये- यम् । तथाऽन्यदप्यविभाज्यमुक्तं मनुना ( ९।२१९ )—‘वस्त्रं पत्रमलंकारं कृता- न्नमृदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥’ इति । धृतानामेव वस्त्राणामविभाज्यत्वं, यद्येन धृतं तत्तस्यैव । पितृधृतवस्त्राणि ६ तु पितुरूर्ध्वं विभ- जतां श्राद्धभोक्त्रे दातव्यानि । यथाह बृहस्पतिः—‘वस्त्रांलंकारशय्यादि पितुर्य- द्वाहनादिकम् । गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे समर्पयेत् ॥’ इति । अभिन- वानि तु वस्त्राणि विभाज्यान्येव । पत्रं वाहनमश्वशिविकादि, तदपि यद्येनारूढं तत्तस्यैव । पित्र्यं तु वस्त्रवदेव, अश्वादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभा-

१. समं विभजनीयं । २. विरोधाच्चापद्येत । ३. निषेधः । ४. चाविभाज्य । ५. इत्यस्यापवाद । ६. पितृधृतानि ।

व्यवहाराध्यायः २७५ ज्येष्ठस्यैव । वैषम्येणाविभाज्यत्वे ज्येष्ठस्य ( मनुः ९।११९ ) - 'अजाविकं सैक- शफं न जातु विषमं भजेत् । अजाविकं सैकैशफं ज्येष्ठस्यैव विधीयते ॥' इति मनुस्मरणात् । अलंकारोऽपि यो येन धृतः स तस्यैव । अधृतः साधारणो विभाज्य एव । ( मनुः ९।२०० ) - 'पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥' इति । 'अलंकारो धृतो भवेत्' इति ३विशेषेणोपादानादधृतानां विभाज्यत्वं गम्यते । कृतान्नं तण्डुलमोद- कादि तदप्यविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कृपादि, तच्च विषमं मूल्यद्वारेण न विभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश्च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः, पर्यायेण कर्म कारयितव्याः । अवरुद्धास्तु पित्रा स्वैरिण्याद्याः समा अपि पुत्रैर्न विभाज्याः । 'स्त्रीषु च संयुक्तास्वविभागः' ( २८।०- ४६) इति गौतमस्मरणात् । योगश्च क्षेमश्च योगक्षेमम् । 'योग'शब्देनालब्धलाभ- कारणं श्रौतस्मार्ताग्निसाम्यं इष्टं कर्म लक्ष्यते । 'क्षेम'शब्देन लब्धपरिरक्षणहेतुभूतं बहिर्वेदिदानतडागारामनिर्माणादि पूर्तं कर्म लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्य विरोधाजितमप्यविभाज्यम् । यथाह लौगाक्षिः- 'क्षेमं पूर्तं योगमिष्ट- मित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोक्ते शयनासनमेव च ॥' इति । 'योगक्षेम' शब्देन योगक्षेमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते-इति केचित् । छत्रचामरशस्त्रोपानत्प्रभृतय इत्यन्ये । प्रचारो गृहारामादिषु प्रवेशनिर्गममार्गः सोऽप्यविभाज्यः । यत्तूशनसा क्षेत्रस्याविभाज्यत्वमुक्तम्- 'अविभाज्यं सगोत्राणामासहस्रकुलादपि । याज्यं क्षेत्रं च पत्रं च कृतान्न- मुदकं स्त्रियः ॥' इति, तद्ब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम् । 'न प्रतिग्रह- भूर्देया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्याविभाज्यत्वं वक्ष्यते । नियमातिक्रमार्जितस्याविभाज्यत्वमनन्तरमेव वक्ष्यसि । पितृद्रव्य- विरोधेन यदार्जितं तद्विभजनीयमिति स्थितं, तत्रार्जकस्य भागद्वयं; वसिष्ठ- वचनात्- 'येन चैषां स्वयमुपार्जितं स्यात्स द्वयंशमेव लभेत' ( १७।५१ ) इति ॥ ११८-११९ ॥ भाषा - माता पिता के धन की सहायता के बिना स्वयं कहीं से स्वयं उपार्जित धन, मित्र से मिले हुए तथा विवाह में प्राप्त धन में भाइयों का हिस्सा नहीं होता । पितृ परम्परा से आया हुआ धन, जिसे किसी और ने बलपूर्वक अधिकार में किया हो, छुड़ाने वाले पुत्र का होता है, उसमें से १. तु विषमं-मनुस्मृतिः । २. पतन्त्यधः । ३. विशेषस्योपादाना । ४. करणं । १८ या०

२०६ याज्ञवल्क्यस्मृतिः भाइयों को अंश न देवे; तथा अपनी विद्या के द्वारा प्राप्त धन में भी दायादों का अंश नहीं होता ॥ ११८-११९ ॥ अस्यापवादमाह— सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । अविभक्तानां भ्रातृणां सामान्यस्यार्थस्य कृषिवणिज्यादिना संभूय समुत्थाने सम्प्रवर्धने केनचित्कृते सम एव विभागो नार्जयितुरं²शद्वयम् ॥— पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः; इदानीं पैतामहे पौत्राणां विभागे विशेषमाह— अनेकपितृकाणां तु पितृतो भागकल्पना ॥ १२० ॥ यद्यपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं पुत्रैरविशिष्टं, तथापि तेषां पितृद्वारेणैव पैतामहद्रव्ये³ विभागकल्पना, न स्वरूपापेक्षया । एतदुक्तं भवति—यदाऽविभक्ता भ्रातरः पुत्रानुत्पाद्य दिवं गतास्तदैकस्य द्वौ पुत्रौ, अन्यस्य त्रयोऽपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वावेकं ५स्वपित्र्यमंशं लभेते, अन्ये त्रयोऽप्येकमंशं पित्र्यं, चत्वारोऽप्येकमेवांशं पित्र्यं लभन्त इति । तथा केषुचि- त्पुत्रेषु म्रियमाणेषु केषुचित्पुत्रानुत्पाद्य विनष्टेष्वप्ययमेव न्यायः । म्रियमाणाः स्वानंशानेव लभन्ते, नष्टानामपि पुत्राः पित्र्यानेवांशांल्लभन्त इति वाचनिकी व्यवस्था ॥ १२० ॥ भाषा—विभाजन के पहले भाइयों के एक में रहते समय के सामान्य धन की कृषि व्यापार आदि से वृद्धि होने पर उसमें सबका समान अंश होता है । पितामह के धन में पिता के अंश के आधार पर ही पुत्र के अंश का निर्धारण होता है ( अर्थात् पितामह की सम्पत्ति में अपने-अपने पिता का भाग लगाकर और फिर अपने-अपने पिता के भाग में अपने अंश का भाग लगाने पर ही पौत्र का भाग आता है ॥ १२० ॥ अधुना विभक्ते पितर्यविद्यमानभ्रातृके वा पौत्रस्य पैतामहे द्रव्ये विभागो नास्ति । ६अध्रियमाणे पितरि ‘पितृतो भागकल्पना’ (व्य० १२०) इत्युक्तत्वात् । भवतु वा स्वार्जितवत्पितुरिच्छयैवेत्याशङ्कित आह— भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य ७चैव हि ॥ १२१ ॥ १. साधारणस्यार्थस्य । २ भागद्वयम् । ३. द्रव्यविभाग । ४. पित्रंशं । ५. द्वयमेव । ६. म्रियमाणे तु पितरि । ७. चोभयोः ।

व्यवहाराध्यायः २७७

भूः शालिक्षेत्रादिका । निबन्ध एकस्य पर्णभेरकस्येयन्ति पर्णानि, तथा एकस्य क्रमुकफलभेरकस्येयन्ति क्रमुकफलानीत्याद्युक्तलक्षणः । द्रव्यं सुवर्णरज- तादि यत्पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वौत्थं लोकप्रसिद्धमिति कृत्वा विभागोऽस्ति । हि यस्मात्तत्सदृशं समानम् , तस्मान्न पितुरिच्छयैव विभागो नापि पितुर्भागद्वयम् । अतश्च ‘पितृतो भागकल्पना’ ( व्य० १२० ) इत्येतत्स्वाम्ये समेऽपि वाचनिकम् । ‘विभागं चेत्पिता कुर्यात्’ ( व्य० ११४ ) इत्येतत्स्वार्जितविषयम् । तथा—‘द्वावंशौ प्रतिपद्येत विभजन्ना- त्मनः पिता’ ( नारदः १३।१२ ) इत्येतदपि स्वार्जितविषयम् । ‘जीवतोश्च- तन्त्रः स्याज्जरायापि समन्वितः’ इत्येतदपि पारतन्त्र्यं मातापित्रर्जितद्रव्यवि- षयम् । तथा—‘अनीशास्ते हि जीवतोः’ इत्येतदपि । तथा सरजस्कायां मातरि सस्पृहे च पितरि विभागमनिच्छत्यपि पुत्रेच्छया पैतामहद्रव्यविभागो भवति । तथाऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधेऽ- प्यधिकारः, पित्रर्जिते न तु निषेधाधिकारः, तत्परतन्त्रत्वात् । अनुमतिस्तु कर्तव्या । तथा हि—पैतृके पैतामहे च स्वाम्यं यद्यपि जन्मनाैव, तथापि पैतृके पितृपरतन्त्रत्वात् पितुश्चार्जकत्वेन ३ प्राधान्यात् पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयोः स्वाम्यमविशिष्टमिति निषेधा- धिकारोऽप्यस्तीति विशेषः । मनुरपि ( ९।२०९ ) ‘पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥’ इति । यत्पितामहार्जितं केनाप्यपहृतं पितामहेनानुद्धृतं यदि पितोद्धरति तत्स्वार्जितमिव पुत्रैः सार्ध- मकामः स्वयं न विभजेदिति वदन् पितामहार्जितमकामोऽपि पुत्रेच्छया पुत्रैः सह विभजेदिति दर्शयति ॥ १२१ ॥

भाषा—जो भूमि, निबन्ध ( चुङ्गी आदि ) एवं धन पितामह ने उपा- र्जित किये हों उसमें भी उपरोक्त के समान ही पहले पिता का भाग लगाकर फिर उसके अन्तर्गत पुत्र का भाग होता है ॥ १२१ ॥

विभागोत्तरकालमुत्पन्नस्य पुत्रस्य कथं विभागकल्पनेत्यत आह— विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । विभक्तेषु पुत्रेषु पश्चात्सवर्णायां भार्यायामुत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोर्विभागस्तं भजतीति विभागभाक्; पित्रोरूर्ध्वं तयोरंशं लभत इत्यर्थः । मातृभागं चासत्यां दुहितरि, ‘मातुर्दुहितरः शेषम्’ ( व्य०


१. भारकस्य । २. स्वाम्यमर्थसिद्धमिति । ३. पितुः स्वार्जकत्वेन । ४. कारोऽप्यस्तीति ।

३७८ : याज्ञवल्क्यस्मृतिः ११७) इत्युक्तत्वात् । असवर्णायामुत्पन्नस्तु स्वांशमेव पित्र्याल्लभते, मातृकं तु सर्वमेव । एतदेव मनुनोक्तम् ( ९।२१६) —'ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम्' इति । पित्रोरिदं पित्र्यमिति व्याख्येयम् ; 'अनीशाः पूर्वजाः पित्रोर्भ्रातृ- र्भागे विभक्तजः' इति स्मरणात् । विभक्तयोर्माता पित्रोर्विभागे विभागात्पूर्व- मुत्पन्नो न स्वामी, विभक्तजश्च भ्रातृभागे न स्वामीत्यर्थः । तथा विभागोत्तरकालं पित्रा यत्किंचिदूर्जितं तत्सर्वं विभक्तजस्यैव; 'पुत्रैः सह विभक्तेन पित्रा यत्स्वय- मर्जितम् । विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥' इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः पितुरूर्ध्वं तैः सार्धं विभक्तजो विभजेत् । यथाह मनुः ( ९।२१६ )—'संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह' इति ॥— पितुरूर्ध्वं पुत्रेषु विभक्तेषु पश्चादुत्पन्नस्य कथं विभागकल्पनेत्यत आह— दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥ १२२ ॥ तस्य पितरि प्रेते भ्रातृविभागसमयेऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तर- कालमुत्पन्नस्यापि विभागः । तद्विभागः कुत इत्यत आह । दृश्याद्भातृभिर्गृहीता- द्धनात् । कीदृशात् ? आयव्ययविशोधितात् । आयः प्रतिदिवसं प्रतिमासं प्रत्यब्दं वा यदुत्पद्यते, व्ययः पितृकृतर्णापाकरणं, ताभ्यामायव्ययाभ्यां यच्छो- धितं तत्तस्मादुद्धृत्य तद्भागो दातव्यः स्यात् । एतदुक्तं भवति — प्रातिस्विकेषु भागेषु तदुत्थमायं प्रवेश्य पितृकृतं चर्णमपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्यः^३ किंचित्किंचिदुद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतच्च विभागसमयेऽप्रजस्य भ्रातुर्भार्यायामस्पष्टगर्भायां विभागादूर्ध्वमुत्पन्न- स्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्य विभागः कर्तव्यः । यथाह वसिष्ठः ( १७।४१ )—'अथ भ्रातॄणां दायविभागो याश्चानपत्याः स्त्रियस्तासा- मापुत्रलाभात्' इति । गृहीतगर्भाणामाप्रसवात्प्रतीक्षणमिति योजनीयम् ॥ १२२॥ भाषा—पुत्रों में सम्पत्ति का विभाजन होने के कुछ कालोपरान्त यदि सवर्णा पत्नी से पुत्र उत्पन्न होता है तो वह भी भाग का अधिकारी होता है । पिता के मरने पर यदि भाइयों के विभाग के समय माता को गर्भ हो किन्तु वह ज्ञात न हो और उससे विभाग होने के कुछ कालोपरान्त पुत्र होवे तो आय- व्यय का हिसाब करके उसमें से उसे भाग देना चाहिए ॥ १२२ ॥ १. मातृभागं तु सर्वमेव । मातृभागं । २. कृतमृणं । ३. भागेभ्यो यत्किंचिदुद्धृत्य । ४. समये भ्रातुर्भार्यायामप्रजायामस्पष्टगर्भायां स्वभागा । समये भ्रातृभार्यायामप्रजस्य स्पष्टगर्भायां विभागादूर्ध्वं ।

[Page Header] व्यवहाराध्यायः २७६

[Main Text] विभक्तजः पित्र्यं मातृकं च सर्वं धनं गृह्णातीत्युक्तं, तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय स्नेहवशादाभरणादिकं प्रयच्छति, तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यः; नापि दत्तं प्रत्याहर्तव्यमित्याह— पितृभ्यां यस्य यद् दत्तं तत्तस्यैव धनं भवेत् । मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद्दत्तमलंकारादि, तत्त- स्यैव १ पुत्रस्य, न विभक्तजस्य स्वं भवति । न्यायसाम्याद्विभागात्प्रागपि यस्य यद्दत्तं तत्तस्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोरंशं तदूर्ध्वं विभजतां यस्य यद्दत्तं तत्तस्यैव, नान्यस्येति वेदितव्यम् ॥- जीवद्विभागे स्वपुत्रसमांशित्वं पत्नीनामुक्तं, 'यदि कुर्यात्समानांशान्' (व्य० ११५) इत्यादिना । पितुरूर्ध्वं विभागेऽपि पत्नीनां स्वपुत्रसमांशित्वं दर्श- यितुमाह— पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरेत् ॥ १२३ ॥ पितुरूर्ध्वं पितुः प्रयाणादूर्ध्वं ३ विभजतां मातापि स्वपुत्रांशसममंशं हरेत् ,- यदि स्त्रीधनं न दत्तम् ; दत्ते त्वर्धांशहारिणीति वक्ष्यते ४ ॥ १२३ ॥ भाषा—माता-पिता जिस (विभक्त) पुत्र को जो वस्तु देते हैं वह उसी का धन होता है। पिता की मृत्यु के बाद (यदि स्त्रीधन न मिला हो) तो विभाग के समय माता भी पुत्रों के बराबर अंश ग्रहण करे ॥ १२३ ॥ पितरि प्रेते यद्यसंस्कृता भ्रातरः सन्ति, तदा तत्संस्कारे कोऽधिक्रियत इत्यत आह— ५ असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । पितुरूर्ध्वं विभजद्भिर्भ्रातृभिरसंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः ॥- असंस्कृतासु भगिनीषु विशेषमाह— भगिन्यश्च निजादंशाद् दत्त्वांशं तु तुरीयकम् ॥ १२४ ॥ अस्यार्थः—भगिन्यश्चासंस्कृताः ६ संस्कर्तव्या भ्रातृभिः। किं कृत्वा ? निजादंशाच्चतुर्थमंशं दत्त्वा । अनेन दुहितरोऽपि पितुरूर्ध्वमंशभागिन्य इति गम्यते । तत्र 'निजादंशात्' इति प्रत्येकं परिकल्पितादंशादुद्धृत्य चतुर्थांशो दातव्य ७ इत्येवमर्थो न भवति, किंतु यज्जातीया कन्या, तज्जातीयपुत्रभागाच्चतु-

[Footnotes] १. तस्यैव । २. मातुः स्वपुत्र । ३. प्रयाणा । ४. वक्ष्यति । ५. असंस्कृ- ताश्च । ६. संस्कार्याः । ७. इत्येवमर्थो । इत्यर्थो ।

२५० याज्ञवल्क्यस्मृतिः र्थांशभागिनी सा कर्तव्या । एतदुक्तं भवति—यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावानंशो भवति, तस्य चतुर्थांशस्तस्या भवति । तद्यथा—यदि कस्यचिद् ब्राह्मोगस्यैका पत्नी पुत्रश्चैकः कन्या चैका, तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा पत्नी पुत्रश्चैकः कन्या चैका, तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भागं विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्णी- यात् ; यदा तु द्वौ पुत्रौ एका च कन्या, तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं द्वौ पुत्रौ विभज्य गृह्णीतः; अथ त्वेकः पुत्रो द्वे कन्ये, तदा पित्र्यं धनं त्रिधा विभज्य एकं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्त्वाऽवशिष्टं सर्वं पुत्रो गृह्णातीत्येवं समानजा- तीयेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रिया- कन्या चैका, तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागंस्त्रींश्चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणीपुत्रो गृह्णाति । यदा तु द्वौ ब्राह्मणी- पुत्रौ क्षत्रियाकन्या चैका, तत्र पित्र्यं धनमेकादशधा विभज्य तेषु त्रीनंशान् क्षत्रियापुत्रभागांश्चतुर्धा विभज्य चतुर्थमंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्वं ब्राह्म- णीपुत्रा विभज्य ⁶गृह्णीतः ॥ एवं जातिवैषम्ये भ्रातॄणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोहनीयम् । न च⁷ 'निजादंशाद्दश्वांशं तु तुरीयक'मिति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्वेति व्याख्यानं युक्तम् । मनुवच- नाविरोधात् ( ९।११८ )—'स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदद्युर्भातृरः पृथक् । स्वात्स्वाद्दंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥' इति । अस्यार्थः—ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः चेभ्यः स्वजातिविहितेभ्योऽशेभ्यः 'चतुरों- ऽशान्हरेद्विप्र' ( मनुः ९।१५३ ) इत्यादिवक्ष्यमाणेभ्यः स्वात्स्वात्तदंशादात्मीया- दात्मीयाद्भागाच्चतुर्थं चतुर्थं भागं दद्युः । न चात्मीयभागादुद्धृत्य चतुर्थांशो देय इत्युच्यते, किंतु स्वजातिविहितादेकस्मादेकस्मादंशात्पृथक्पृथगेकस्याप्येकस्यै कन्यायै चतुर्थोऽशो देय इति जातिवैषम्ये संख्यावैषम्ये च विभागक्लृप्तिरुक्तैव । 'पतिताः स्युरदित्सव' इत्यकरणे प्रत्यवायश्रवणादवश्यदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनमविवक्षितं संस्कारमात्रोपयोगिद्रव्यदानमेव विवक्षित- मिति चेन्न । स्मृतिद्वयेऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावाददाने प्रत्यवा- यश्रवणाच्चेति । यदपि कैश्चिदुच्यते—अंशदानविवक्षायां बहुभ्रातृकायाः ⁹बहु- धनत्वं, बहुभगिनीकस्य च निर्धनता प्राप्नोतीति, तदुक्तरीत्या परिहृतमेव ।

१. कस्यचिद्ब्राह्मणस्यैका । २. अथ तु । ३. गृह्णीयात् एवं । ४. पित्र्यं धनं । ५. गृह्णीयात् । ६. गृह्णीयाताम् । ७. नच दशांशं तु । ८. संस्कारोप- योगि । ९. बहुधनकत्वं ।

व्यवहारोध्यायः २८१ नह्यात्मीयाङ्गादुद्धृत्य चतुर्थांशस्य दानमुच्यते येन तथा स्यात् ; अतोऽस- हायमेधातिथिप्रभृतीनां व्याख्यानमेव चतुरस्रं, न भारुचेः । तस्मात्पितुरूर्ध्वं कन्याप्यंशभागिनी पूर्वं चेद्यत्किंचित्पिता ददाति, तदेव लभते; विशेषवचना- भावादिति सर्वमनवद्यम् ॥ १२४ ॥ भाषा—पिता की मृत्यु के बाद यदि भाई विभाजन करें तो जिन भाइयों का संस्कार न हुआ हो उनका संस्कार सबके सम्मिलित धन द्वारा होना चाहिए और बहनों का विवाह-संस्कार न हुआ हो तो सभी भाई अपने भाग से चतुर्थांश देकर उनका संस्कार करें ॥ १२४ ॥ एवं 'विभागं चेत्पिता कुर्यात्' (व्य० ११४) इत्यादिना प्रबन्धेन समा- नजातीयानां भ्रातॄणां परस्परं पित्रा च सह विभागस्तृप्तिरुक्ता; अधुना भिन्न- जातीयानां विभागमाह— चतुस्त्रिद्वयेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । क्षत्रजास्त्रिद्वयेकभागा विड्जास्तु द्व्येकभागिनः ॥ १२५ ॥ 'तिस्रो वर्णानुपूर्व्येण' (आ० १७) इति ब्राह्मणस्य चतस्रः, क्षत्रियस्य तिस्रः, वैश्यस्य द्वे, शूद्रस्यैकेति भार्या दर्शिताः । तत्र ब्राह्मणात्मजा ब्राह्मणी- स्पन्ना वर्णशः—'वर्ण'शब्देन ब्राह्मणादिर्वर्णाः स्त्रिय उच्यन्ते । 'संख्याकवचनाच्च वीप्सायाम्' (पा० ५।४।४३) इत्यधिकरणकारकादेकवचनाद्वीप्सायां शस् । अतश्च वर्णे वर्णे ब्राह्मणोत्पन्नाः४ यथाक्रमं चतुस्त्रिद्वयेकभागाः स्युर्भवेयुः । एत- दुक्तं भवति—ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकश्चतुरश्चतुरो भागान्ल्लभन्ते । तेनैव क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् वैश्यायां द्वौ द्वौ शूद्रायामेकमेकमिति । क्षत्रजाः क्षत्रियेणोत्पन्नाः, 'वर्णशः' इत्यनुवर्तते; यथाक्रमं; त्रिद्वयेकभागाः । क्षत्रियेण क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् , वैश्यायां द्वौ द्वौ, शूद्रायामेकमे- कम् । विड्जाः वैश्येनोत्पन्नाः । अत्रापि 'वर्णश' इत्यनुवर्तते, यथाक्रमं द्व्येक- भागिनः । वैश्येन वैश्यायामुत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते । शूद्राया- मेकमेकम् । 'शूद्रस्यैकैव भार्या' इति भिन्नजातीयपुत्राभावात्तत्पुत्राणां पूर्वोक्त एव विभागः; यद्यपि 'चतुस्त्रिद्वयेकभागा' इत्यविशेषेणोक्तं, तथापि प्रतिग्रह- प्राप्तभूव्यतिरिक्तविषयमिदं द्रष्टव्यम् । यतः स्मरन्ति—'न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्येषा पिता दद्यान्मृते विप्रौसुतो हरेत् ॥' इति । प्रतिग्रहग्रहणात्क्रयादिना लब्धा भूः क्षत्रियादिसुतानामपि भवत्येव । शूद्रापुत्रस्य १. चरिष्ठं, न भागुरेः । २. विड्जौ तु द्वयेकभागिनौ । ३. वर्णास्त्रय उच्यन्ते । ४. १०का एकैकश्चतुस्त्रि।

विशेषप्रतिषेधाच्च । 'शूद्रायां द्विजातिभिर्जातो न भूमेर्भागमर्हति' इति । यदि क्रयादिप्राप्ता भूः क्षत्रियादिसुतानां न भवेत्तदा शूद्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । यत्पुनः ( मनुः९।१५५ )—'ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थ- भाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥' इति, तदपि जीवता पित्रा यदि शूद्रापुत्राय किमपि प्रदत्तं स्यात्तद्विषयम् । यदा तु प्रसाददानं नास्ति, तदैकांशभागित्यविरुद्धम् ॥ १२५ ॥ भाषा—वर्णानुसार ब्राह्मण के (क्रमशः चार वर्णों की पत्नियों से उत्पन्न) पुत्रों के चार, तीन, दो और एक भाग होते हैं; क्षत्रिय के ( क्रमशः क्षत्रिया, वैश्या और शूद्रा पत्नी से उत्पन्न ) पुत्रों का तीन, दो और एक भाग, वैश्य के ( क्रमशः वैश्या और शूद्रा पत्नियों से उत्पन्न ) पुत्रों के दो और एक भाग होते हैं ॥ १२५ ॥ अथ सर्वविभागशेषे किंचिदुच्यते— अन्योन्यापहृतं $^१$द्रव्यं विभक्ते यत्तु दृश्यते । तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥ १२६ ॥ परस्परपहृतं समुदायद्रव्यं विभागकाले $^३$चाज्ञातं विभक्ते पितृधने यद्- दृश्यते, तत्समैरंशैर्विभजेरन्नित्येवं स्थितिः शास्त्रमर्यादा । अत्र 'समैरंशैः' इति वदतोद्धारविभागो निषिद्धः । विभजेरन्निति वदता येन दृश्यते तेनैव न ग्राह्य- मिति दर्शितम् । एवं च वचनस्यार्थवत्त्वान्न समुदायद्रव्यापहारे दोषाभावपर- त्वम् । ननु मनुना ज्येष्ठस्यैव समुदायद्रव्यापहारे दोषो दर्शितो न कनीयसाम् ( मनुः९।२१३ ) 'यो$^४$ ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन्यवीयसः । सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥' इति वचनात् $^६$। नैतत् ; यतः संभावित- स्वातन्त्र्यस्य पितृस्थानीयस्य ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्त्राणां कनीयसां पुत्रस्थानीयानां दण्डापूपिकनीत्या सुतरां दोषो दर्शित एव । तथा चाविशेषेणैव दोषः श्रूयते । गौतमः—'यो वै भागिनं भागान्नुदते चयते चैनं स यदि चैनं न चयतेऽथ पुत्रमथ पौत्रं चयत'इति । यो भागिनं भागार्हं भागान्नुदते भागादपा- करोति भागं तस्मै न प्रयच्छति, स भागान्नुन्न एनं नोत्तारं चयते नाशयति दोषीणं करोति; यदि तं न नाशयति, तदा तस्य पुत्रं पौत्रं वा नाशयतीति, ज्येष्ठविशेष- मन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुतः । अथ साधारणं द्रव्यमात्मनो- ऽपि स्वं भवतीति स्वत्वबुद्ध्या गृह्यमाणं न दोषमावहतीति मतम् । तदसत् , १. प्रप्तं । २. यदि दृश्यते । ३. वा ज्ञातं । ख ज्ञातं । ४. यो लोभाद्वि- निकुर्वीत । ५. चोत्तारं । ६. श्रूयते ।

व्यवहाराध्यायः २८३ स्वबुद्ध्या गृहीतेऽप्यवर्जनीयतया परस्वमपि गृहीतमेवेति निषेधानुप्रवेशाद्दोष- मावहत्येव । यथा मौद्गे चरौ विपक्षे सहशतया माषेषु गृह्यमाणेषु 'अयज्ञिया वै माषाः' इति निषेधो न प्रविशति, मुद्गावयवबुद्ध्या गृह्यमाणत्वादिति पूर्वप- क्षिणोक्ते मुद्गावयवेषु गृह्यमाणेष्ववर्जनीयतया माषावयवा अपि गृह्यन्त एवेति निषेधः प्रविशत्येवेति सिद्धान्तिनोक्तम् । तस्माद्वचनतो न्यायतश्च साधारणद्र- व्यापहारे दोषोऽस्त्येवेति सिद्धम् ॥ १२६ ॥ भाषा-विभाग के समय आपस में छिपाकर रखा गया धन यदि पितृ- धन के विभाग के उपरान्त दिखाई पड़े तो वे सभी भाई उसका समान अंश करके विभाजन कर लें; यही नियम है ॥ १२६ ॥ द्व्यामुष्यायणस्य भागविशेषं दर्शयंस्तस्य स्वरूपमाह— अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ १२७ ॥ 'अपुत्रां गुर्वनुज्ञातः' (आ० ६८) इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्रः उभयोर्बीजिक्षेत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थः—यदाऽसौ नियुक्तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य १ क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति, स द्विपित्रिको द्व्यामुष्यायणो द्वयोरपि रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थं प्रयतते २, तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति, न बीजिनः । स च न नियमेन बीजिनो रिक्थहारी पिण्डदो ३ वेति । यथोक्तं मनुना (९।५३)—'क्रियाभ्युपगमात्क्षेत्रं बीजार्थं यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥' इति । क्रियाभ्युपगमादिति अत्रोत्पन्न- मपत्यमावयोरुभयोरपि भवत्विति संविदङ्गीकरणाद्यत्क्षेत्रं क्षेत्रस्वामिना ५बीजाव- पनार्थं बीजिने दीयते तत्र तस्मिन्क्षेत्रे उत्पन्नस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ स्वामिनौ दृष्टौ महर्षिभिः । तथा (मनुः ९।५२)—'फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्बलीयसी ॥' इति । फलं त्वनभिसंधायेति । अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वित्येवमनभिसंधाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिण एव । यतो बीजाद्योनिर्बलीयसी; गवाश्वादिषु तथा दर्शनात् । अत्रापि ६नियोगो वाग्दत्ताविषय एव; इतरस्य नियोगस्य मनुना निषिद्धत्वात् (९।५९, ६०) - 'देवराद्वा सपिण्डाद्वा स्त्रिया १. अपरस्य । २. प्रवर्तते । ३. पिण्डदाता च । ४. करणेन यत्क्षेत्रं । ५. बीजवापनार्थं । ६. तथानियोगो ।