याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 326, कुल 782 में से
संदर्भ में पढ़ें२७० याज्ञवल्क्यस्मृतिः इत्युक्त्वा ‘निवृत्ते चापि रजसि’ (गौ० २८।२) इति द्वितीयः कालो दर्शितः । ‘जीवति चेच्छति’ (गौ० २८।२) इति तृतीयः कालो दर्शितः । तथा सरज- स्कायामपि मातर्यनिवृत्तस्पृहेऽपि पितर्यधर्मवर्तिनि दीर्घरोगग्रस्ते च पुत्राणामिच्छया भवति विभागः । यथाह शङ्खः—‘अकामे पितरि रिक्थविभागो वृद्धे विपरीत- चेतसि रोगिणि च’ इति ॥ ११४ ॥ भाषा—यदि पिता (संपत्ति का) विभाग करे तो उसे अपनी इच्छानुसार पुत्रों में बाँटे । ज्येष्ठ पुत्र को श्रेष्ठभाग (मझले को मध्यम और सबसे छोटे को कनिष्ठभाग) देकर विभाजन करे अथवा सबको समान अंश देवे ॥ ११४ ॥ पितुरिच्छया विभागो द्विधा दर्शितः-समो विषमश्च; तत्र समविभागे विशेषमाह— यदि कुर्यात्समानांशान् पत्न्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ ११५ ॥ यदा स्वेच्छया पिता सर्वानैन सुतान् समविभागिनः करोति तदा पत्न्यश्च पुत्रसमांशभाजः कर्तव्याः, यांसां पत्नीनां भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने अर्धांशं वक्ष्यति (व्य० १४८)—‘दत्ते त्वर्धं प्रकल्पयेत्’ इति ॥ यदा तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति तदा पत्न्यः श्रेष्ठादिभागान्न लभन्ते, किंतुद्धृतोद्धारात्समुदायात्समानेवांशॉल्लभन्ते स्वोद्धारं च ॥ यथाहापस्तम्बः (ध० २।१४।९)—‘परीभाण्डं च गृहेऽलङ्कारो भार्यायाः’ इति ॥ ११५ ॥ भाषा—यदि अपनी इच्छा से पिता सभी पुत्रों को समान अंश देता है तो उसे उन पत्नियों को भी समान भाग देना चाहिए, जिन्हें अपने पति से या श्वशुर स्त्रीधन नहीं मिला है ॥ ११५ ॥ ‘ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः’ (व्य० ११४) इति पक्षद्वयेऽप्यपवादमाह— शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक्क्रिया । स्वयमेव द्रव्यार्जनसमर्थस्य पितृद्रव्यमनीहमानस्यानिच्छतोऽपि यत्किंचिद- सारमपि दत्त्वा पृथक्क्रिया विभागः कर्तव्यः पित्रा । तत्पुत्रादीनां नादजिघृक्षा मा भूदिति ॥— १. निच्छुतो यत्किंचिदसारमपृथक् ।