याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 325, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २६६
दानेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनरेकस्यानीश्वरत्वेन, अतो विभक्ता- नुमतिव्यतिरेकेणापि व्यवहारः सिद्धयेवेति व्याख्येयम् । यदपि—'स्वग्रामज्ञा- तिसामन्तदायादानुमतेन च । हिरण्योदकदानेन षड्भिर्गच्छति मेदिनी ॥' इति, तत्रापि ग्रामानुमतिः, 'प्रतिग्रहप्रकाशः स्यात्स्थावरस्य विशेषतः' ( व्य० १७६ ) इति स्मरणात् व्यवहारप्रकाशनार्थमेवापेक्ष्यते, न पुनर्ग्रामानुमत्या विना व्यवहारासिद्धिः । सामन्तानुमतिस्तु सीमाविप्रतिपत्तिनिरासाय । ज्ञातिदाया- दानुमतेस्तु प्रयोजनमुक्तमेव 'हिरण्योदकदानेन' इति; 'स्थावरे विक्रयो नास्ति कुर्यादाधिमनुज्ञया' इति स्थावरस्य विक्रयप्रतिषेधात्, 'भूमिं यः प्रति- गृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥' इति दानप्रशंसादर्शनाच्च । विक्रयेऽपि कर्तव्ये सहिरण्यमुदकं दत्वा दानरूपेण स्थावरविक्रयं कुर्यादित्यर्थः । पैतृके पैतामहे च धने जन्मनेव स्वत्वेऽपि विशेषं 'भूर्या पितामहोपात्ता' ( व्य० १२१ ) इत्यत्र वक्ष्यामः ॥ इदानीं यस्मिन्काले येन च यथा विभागः कर्तव्यस्तद्दर्शयंन्नाह—
विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ ११४ ॥
यदा विभागं पिता चिकीर्षति तदा इच्छया विभजेत् पुत्रान्नात्मनः सका- शात्·पुत्रं पुत्रौ पुत्रान् । इच्छाया निरङ्कुशत्वान्नियमप्राप्तौ नियमार्थमाह— ज्येष्ठं वा श्रेष्ठभागेनेति । ज्येष्ठं श्रेष्ठभागेन, मध्यमं २मध्यभागेन, कनिष्ठं कनिष्ठ- भागेन, 'विभजेत्' इत्यनुवर्तते । श्रेष्ठादिविभागश्च मनुनोक्तः ( ९।११२ )— 'ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥' इति । 'वा' शब्दो वक्ष्यमाणपक्षापेक्षः । सर्वे वा स्युः समांशिन इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागः स्वार्जितद्रव्यविषयः । पितृक्रमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वान्नेच्छया विषमो विभागो युक्तः । विभागं चेत्पिता कुर्यादिति । यदा पितुर्विभागेच्छा स तावदेकः कालः । अपरोऽपि जीव३त्यपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि च निवृत्तरजस्कायां, पितुरनिच्छायामपि पुत्रेच्छयैव विभागो भवति । यथोक्तं नारदेन ( १३।३ )—'अत ऊर्ध्वं पितुः पुत्रा विभजेयुर्धनं समम्' इति पित्रो- रूर्ध्वं विभागं प्रतिपाद्य—'मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि रमणे पितुर्युपरतस्पृहे ॥' इति दर्शितः । अत्र 'पुत्रा धनं समं विभजेयुः' इत्यनुषज्यते । गौतमेनापि—'ऊर्ध्वं पितुः पुत्रा रिक्थं विभजेरन्' ( २८।१ )
१. सीमाप्रतिपत्ति । २. मध्यमभागेन । ३. जीवत्येव ।