याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 324, कुल 782 में से
संदर्भ में पढ़ें२६८ याज्ञवल्क्यस्मृतिः
एव पितुरूर्ध्वं विभागातप्राग्द्रव्यस्वत्वस्य प्रहीणत्वादन्येन गृह्यमाणं न निवार्यत इति चोद्यस्यानवकाशः । तथैकपुत्रस्यापि पितृप्रयाणादेव पुत्रस्य स्वमिति न विभागमपेक्षत इति । अत्रोच्यते-लोकप्रसिद्धमेव स्वत्वमित्युक्तम् । लोके च पुत्रादीनां जन्मनेव स्वत्वं प्रसिद्धतरं नापहूवमर्हति । 'विभाग'शब्दश्च बहुस्वा- मिकधनविषयो¹ लोकप्रसिद्धः, नान्यदीयैविषयो न प्रहीणविषयः; तथा³ 'उत्प- त्यैवार्थस्वामित्वं लभेतेत्याचार्याः' इति गौतमवचनाच्च । 'मणिमुक्ताप्रवाला- नाम्' इत्यादिवचनं च जन्मना स्वत्वपक्ष एवोपपद्यते । नच पितामहो- पात्तस्थावरविषयमिति युक्तम् ; 'न पिता न पितामहः' इति वचनात् । पिता⁴महस्य हि स्वार्जितमपि पुत्रे पौत्रे च सत्यदेयमिति वचनं जन्मना स्वत्वं गमयति । तथा परमते मणिमुक्ता⁵प्रवालवस्त्राभरणादीनां पैतामहाना- मपि पितुरेव स्वत्वं; वचनात् , एवमस्मन्मतेऽपि पित्रार्जितानामप्येतेषां⁶ पितुर्दानाधिकारः, वचनादित्यविशेषः ॥ यत्तु 'भर्त्रा प्रीतेन' इत्यादि विष्णु- वचनं स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयै- वेति व्याख्येयम् ; पूर्वोक्तैर्मणिमुक्तादिवचनैः स्थावरव्यतिरिक्तस्यैव प्रीति- दानयोग्यत्वनिश्चयात् ॥ यदप्यर्थसाध्येषु वैदिकेषु कर्मस्वनधिकार इति, तन्न तद्विधानबलादेवाधिकोरो गम्यते । तस्मात्पैतृके पैतामहे च द्रव्ये जन्म- नैव स्वत्वम् , तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकु- तुम्बभरणापद्विमोक्षादिषु⁷ च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्यमिति स्थितम् । स्थावरे तु स्वार्जिते पित्रादिप्राप्ते चपुत्रादिपारतन्त्र्यमेव; 'स्थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । असंभूय सुतान्सर्वान्न दानं न च विक्रयः ॥ ये जाता येऽप्यजाताश्च ये च गर्भे व्यवस्थिताः । वृत्तिं च तेऽभिकाङ्क्षन्ति न दानं न च विक्रयः ॥' इत्यादिसमरणात् । अस्यापवादः—'एकोऽपि स्थावरे कुर्याद्दा- नाधमनविक्रयम् । आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥' इति । अस्यार्थः- अप्राप्तव्यवहारेषु पुत्रेषु पौत्रेषु वाऽनुज्ञानादावसमर्थेषु भ्रातृषु वा तथाविधेष्व- विभक्तेष्वपि सकलकुटुम्बव्यापिन्यामापदि तत्पोषेणे वाऽवश्यं कर्तव्येषु च पितृ- श्राद्धादिषु स्थावरस्य दानाधमनविक्रयमेकोऽपि समर्थः कुर्यादिति । यत्तु वच- नम्—'विभक्ता वाऽविभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधमनविक्रये ॥' इति, तदप्यविभक्तेषु द्रव्यस्य मध्यस्थत्वादेकस्यानीश्वरं- त्वात् सर्वाभ्यनुज्ञाऽवश्यं कार्या । विभक्तेषु तूत्तरकालं विभक्ताविभक्तसंशयव्यु-
१. प्रसिद्धो । २. न्यदीयधनविषयो । ३. तं तथोत्पत्त्येव । ४. पितृपि- तामहस्य । ५. मुक्तावस्त्राभरणा । ६. एतेषां मणिमुक्तादीनां । ७. विमोक्ष- णादिषु । ८. वा अनुज्ञादा । अनुज्ञादानादाव : ९. अनीशकत्वात् ।