याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 323, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २६७
लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तं 'सूतानामश्वसारथ्यम्' इत्यादि तत्तत्सर्वं निर्विष्टशब्देनोच्यते सर्वस्यापि भृतिरूपत्वात् ॥ 'निर्वेशो भृतिभो- गयोः' (तृ० ना० २।४) इति त्रिकाण्डीस्मरणात् । तत्तदसाधारणं वेदि- तव्यम् । यदपि 'पत्नी दुहितरश्चैव' (व्य० १३५) इत्यादिस्मरणं तत्रापि स्वामिसंबन्धितया बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे व्यामोहनिवृत्त्यर्थं स्मरणमिति सर्वमनवद्यम् ॥ यदपि मम स्वमनेनापहृतमिति न ब्रूयात्स्वत्वस्य लौकिकत्व इति;-तदप्यसत् ; स्वत्वहेतुभूतक्रयादिसंदेहात्स्वत्व- संदेहोपपत्तेः । विचारप्रयोजनं तु-'यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥' इति । शास्त्रैकसमधिगम्ये स्वत्वे । गर्हितेनासत्प्रतिग्रहवाणिज्यादिना लब्धस्य स्वत्वमेव नास्तीति तत्पुत्राणां १तदविभाज्यमेव । यदा तु २लौकिकं स्वत्वं तदाऽसत्प्रतिग्रहादिलब्धस्यापि स्वत्वात्तत्पुत्राणां तद्विभाज्यमेव । 'तस्योत्सर्गेण शुद्ध्यन्ति' इति प्रायश्चित्तमर्ज- यितुरेवं, तत्पुत्रादीनां तु दायत्वेन स्वत्वमिति न तेषां दोषसंबन्धः; 'सप्त वित्ता- गमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥' इति (१०।११५) मनुस्मरणात् ॥ इदानीमिदं संदिह्यते-'किं विभागात्स्वत्वं३मुत स्वस्य सतो विभाग इति । तत्र विभागात्स्वत्व३मिति तावद्युक्तम् ; जातपुत्रस्याधानविधानात् । यदि जन्मनैव स्वत्वं स्यात्तदोत्पन्नस्य पुत्रस्यापि तत्स्वं साधारणमिति द्रव्यसाध्येष्वाधानादिषु पितुरनधिकारः स्यात् । तथा विभागात्प्राक् पितृप्रसादलब्धस्य विभागप्रतिषेधो नोपपद्यते; सर्वानुमत्या दत्तत्वाद्विभागप्राप्त्यभावात् । यथाह-'शौर्यभार्याधने चोभे यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥' (ना० १३।६) इति ॥ तथा 'भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्नीयाद्दद्याद्वा स्थावरादृते ॥' इति प्रीतिदानवचनं च नोपपद्यते- जन्मनैव स्वत्वे । नच 'स्थावरादृते यद्दत्तम्' इति संबन्धो युक्तः; व्यवहितयो- जनाप्रसङ्गात् । यदपि-'मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥' तथा-'पितृप्रसादाद्भुज्यन्ते वस्त्राण्याभरणानि च । स्थावरं तु न भुज्येत प्रसादे सति पैतृके ॥'इति स्थावरस्य प्रसाद४दानप्रतिषे- धवचनं, तत्पितामहोपात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पित्रापुत्रयोः साधारणमपि५ मणिमुक्तादि पितुरेव, स्थावरं तु साधारणमित्यस्मादेव वचनाद- वगम्यते । तस्मान्न जन्मना स्वत्वं किंतु स्वामिनाशाद्विभागाद्वा स्वत्वम् । अत
१. न विभाज्यमेव । २. स्वत्वं लौकिकं तदा । ३. स्वत्वमुत । ४. प्रसा- दादिह न प्रति । प्रसाददाने प्रति । ५. समानमपि ।