भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 331, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 331

व्यवहाराध्यायः २७५ ज्येष्ठस्यैव । वैषम्येणाविभाज्यत्वे ज्येष्ठस्य ( मनुः ९।११९ ) - 'अजाविकं सैक- शफं न जातु विषमं भजेत् । अजाविकं सैकैशफं ज्येष्ठस्यैव विधीयते ॥' इति मनुस्मरणात् । अलंकारोऽपि यो येन धृतः स तस्यैव । अधृतः साधारणो विभाज्य एव । ( मनुः ९।२०० ) - 'पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥' इति । 'अलंकारो धृतो भवेत्' इति ३विशेषेणोपादानादधृतानां विभाज्यत्वं गम्यते । कृतान्नं तण्डुलमोद- कादि तदप्यविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कृपादि, तच्च विषमं मूल्यद्वारेण न विभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश्च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः, पर्यायेण कर्म कारयितव्याः । अवरुद्धास्तु पित्रा स्वैरिण्याद्याः समा अपि पुत्रैर्न विभाज्याः । 'स्त्रीषु च संयुक्तास्वविभागः' ( २८।०- ४६) इति गौतमस्मरणात् । योगश्च क्षेमश्च योगक्षेमम् । 'योग'शब्देनालब्धलाभ- कारणं श्रौतस्मार्ताग्निसाम्यं इष्टं कर्म लक्ष्यते । 'क्षेम'शब्देन लब्धपरिरक्षणहेतुभूतं बहिर्वेदिदानतडागारामनिर्माणादि पूर्तं कर्म लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्य विरोधाजितमप्यविभाज्यम् । यथाह लौगाक्षिः- 'क्षेमं पूर्तं योगमिष्ट- मित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोक्ते शयनासनमेव च ॥' इति । 'योगक्षेम' शब्देन योगक्षेमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते-इति केचित् । छत्रचामरशस्त्रोपानत्प्रभृतय इत्यन्ये । प्रचारो गृहारामादिषु प्रवेशनिर्गममार्गः सोऽप्यविभाज्यः । यत्तूशनसा क्षेत्रस्याविभाज्यत्वमुक्तम्- 'अविभाज्यं सगोत्राणामासहस्रकुलादपि । याज्यं क्षेत्रं च पत्रं च कृतान्न- मुदकं स्त्रियः ॥' इति, तद्ब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम् । 'न प्रतिग्रह- भूर्देया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्याविभाज्यत्वं वक्ष्यते । नियमातिक्रमार्जितस्याविभाज्यत्वमनन्तरमेव वक्ष्यसि । पितृद्रव्य- विरोधेन यदार्जितं तद्विभजनीयमिति स्थितं, तत्रार्जकस्य भागद्वयं; वसिष्ठ- वचनात्- 'येन चैषां स्वयमुपार्जितं स्यात्स द्वयंशमेव लभेत' ( १७।५१ ) इति ॥ ११८-११९ ॥ भाषा - माता पिता के धन की सहायता के बिना स्वयं कहीं से स्वयं उपार्जित धन, मित्र से मिले हुए तथा विवाह में प्राप्त धन में भाइयों का हिस्सा नहीं होता । पितृ परम्परा से आया हुआ धन, जिसे किसी और ने बलपूर्वक अधिकार में किया हो, छुड़ाने वाले पुत्र का होता है, उसमें से १. तु विषमं-मनुस्मृतिः । २. पतन्त्यधः । ३. विशेषस्योपादाना । ४. करणं । १८ या०

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 331, कुल 782 में से · BharatKosha