भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 330, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 330

२७४ याज्ञवल्क्यस्मृतिः

विभेजनॊयम् १ । तथा ‘पितृद्रव्याविरोधेन’ इत्यस्य सर्वशेषत्वादेव पितृद्रव्य- विरोधेन प्रतिग्रहलब्धमपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वा- हिकमित्यादिनारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन्मैत्रादिलब्धं तस्या- विभाज्यत्वाय मैत्रादिवचनमर्थवदित्युच्यते । तथा सति समाचारविरोधः, विद्या- लब्धे नारदवचनविरोधश्च ।—‘कुटुम्बं बिभृयाद् भ्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् ॥’ (नारदः १३।१०) इति । तथा विद्याधनस्याविभाज्यस्य लक्षणमुक्तं कात्यायनेन—‘परभक्तोपयोगेन विद्या प्राप्ता- न्यतस्तु या । तया लब्धं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥’ इति । तथा ‘पितृ- द्रव्याविरोधेन’ इत्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वमाचारविरुद्धा२- मापद्येत । एतदेव स्पष्टीकृतं मनुना ( ९।२०८)—‘अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जितम् । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥’ इति श्रमेण सेवा- युद्धादिना । ननु पितृद्रव्याविरोधेन यन्मैत्रादिलब्धं द्रव्यं तदविभाज्यमिति न वक्तव्यम् ; विभागप्राप्त्यभावात् । यद्येन लब्धं तत्तस्यैव, नान्यस्येति प्रसिद्ध- तरम् । प्राप्तिपूर्वकश्च प्रतिषेधः ३ । अत्र कश्चिदिथं प्राप्तिमाह—‘यत्किञ्चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥’ ( मनुः ९।२०४ ) इति । ज्येष्ठो वा कनिष्ठो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेति व्याख्यानेन पितरि सत्यसति च मैत्रादीनां विभाज्यत्वं प्राप्तं प्रतिषिध्यत इति,—तदसत्; नह्यत्र प्राप्तस्य प्रतिषेधः, किंतु सिद्धस्यैवानुवादोऽयम् । लोकसिद्धस्यैवानुवादकान्येव प्रायेणास्मिन्प्रकरणे वचनानि । अथवा ‘समवेतैस्तु यत्प्राप्तं सर्वं तत्र समांशिनः ।’ इति प्राप्तस्या- पवाद इति संतुष्यतु भवान् । अतश्च ‘यत्किञ्चित्पितरि प्रेते’ इत्यस्मिन्वचने ज्येष्ठादिपदाविवक्षया प्राप्तिरिति व्यामोहमात्रम् । अतो मैत्रादिवचनैः पितुः प्रागूर्ध्वं वा४विभाज्यत्वेनोक्तस्य ‘यत्किंचित्पितरि प्रेते’ इत्यपवादं ५ इति व्याख्ये- यम् । तथाऽन्यदप्यविभाज्यमुक्तं मनुना ( ९।२१९ )—‘वस्त्रं पत्रमलंकारं कृता- न्नमृदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥’ इति । धृतानामेव वस्त्राणामविभाज्यत्वं, यद्येन धृतं तत्तस्यैव । पितृधृतवस्त्राणि ६ तु पितुरूर्ध्वं विभ- जतां श्राद्धभोक्त्रे दातव्यानि । यथाह बृहस्पतिः—‘वस्त्रांलंकारशय्यादि पितुर्य- द्वाहनादिकम् । गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे समर्पयेत् ॥’ इति । अभिन- वानि तु वस्त्राणि विभाज्यान्येव । पत्रं वाहनमश्वशिविकादि, तदपि यद्येनारूढं तत्तस्यैव । पित्र्यं तु वस्त्रवदेव, अश्वादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभा-

१. समं विभजनीयं । २. विरोधाच्चापद्येत । ३. निषेधः । ४. चाविभाज्य । ५. इत्यस्यापवाद । ६. पितृधृतानि ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 330, कुल 782 में से · BharatKosha